________________ आगमो पञ्चसूत्र द्वारककृति सन्दोहे / 112 // तत्सर्व गर्ने इति सम्बन्धः। कीदृश वितथमित्याह-'अनाचरणीयमिति / यतो वितथमपि 'उत्पद्यते हि साऽवस्था देशकालामयान् प्रति / यस्यां कार्यमकाय स्यात् कर्म कार्य च वर्जये' दितिवचनात् 'नैकान्तात् त कल्पते कल्प्य'मित्यादिवचनाचाचरणीयतामापद्यते, न च तत्कार्य प्रतिक्रम्यमित्युक्तमनाचरणीयमिति / वार्तिकम् आचरणाया अयोग्यं यत् / तथा च अर्श आदीनां छेदे आचार्यादीनां पादस्पर्शे च जातस्यापराधस्य क्षामणौचित्येऽपि न तच्छेदनं स्पों वा निन्द्यः, आचरणीयत्वादेव हेतोरिति / क्षिप्तचित्ताद्यवस्थायामना चरणीयस्यापि बन्धादेरेष्टव्यत्वादाह-'अनेष्टव्य' इति / य आचारस्तत्तद्विषये विधात कथमपीच्छा योग्यो न भवेत्तद्वितथमाचीर्ण गर्ने इति तत्त्वम् / गर्दाहेतुमाह-'पापं पापानुबन्धी'ति / हिंसादीनां गण्यमानानामष्टादशानां पापस्थानानामन्यतमत् पापं पापस्थानमित्यर्थः / हिंसादीनि पापस्थानान्यपि अप्रमत्तानामनारम्भ | कत्वादेव पापस्यानुवन्धकानि न भवन्ति, अप्रमत्तानां सत्यप्यारम्भेऽङ्गिनां पापबन्धस्याभावादिति पुनराह'पापानुबन्धी ति / न प्रशस्तक्रोधादिवत् स्वरूपेणैव पापं किन्तु प्रमत्तहिंसादिवत् स्वरूपेणानुबन्धेन च यत्पापं तत् वितथमित्यादि / जैन हि शासनं हिंसितव्यो न कोऽपीत्यादिवदनशीलमिति न तत्र सूक्ष्मस्याऽपि पापस्यास्त्यनुज्ञेत्युक्तं-'सूक्ष्म वा बादरं वे'ति / एवं च 'जीवो जीवस्य जीवन मित्याद्युक्त्वा यदन्यशासनेषु हिंसाद्यनुज्ञानं क्रियते, तन्नात्र शासने। अत्र तु शासने प्रशस्तानामपि पापानां प्रतिक्रमणीयता / अत एव जिनार्चार्थस्नानादिजातस्यासंयमस्यार्चाजन्येन शुभेन शोधनीयताक्ता। तथा च पूजादिषु स्वरूपतोऽल्पपापस्य भावेऽपि कालान्तरावेद्यत्वादेकान्त निर्जरारूपत्वम् / तत एव च त्रिविधत्रिविधविरतानामपि सोपदेशविषयो भवति / धर्मस्य च कषच्छेदतापैः परीक्षायां पापानां सर्वेषां सर्वथैव | प्रतिषेधः कपतया गीयते / धर्मश्च जैनस्विभिः कपच्छेदतापैः शुद्ध एवेति / तत्र सर्वमपि पापं निन्द्यमेव। 10 // 15 // DARP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust