________________ 200 आगमो मातापितराविति श्रीउमास्वातिवाचका अप्यूचिरे / मात्रादिसम्बन्ध्यौचित्यं धर्मोपदेशमालातो ज्ञातव्यम् / पञ्चसूत्रद्वारककृति ततिक्रमेण योऽपराधो जातस्तस्य गर्दाऽत्र विधीयते, पूर्वानुपूर्व्या उपकारमहत्ता, तत एव च क्रमो वार्तिकम् मात्रादिकः / यद्यपि माता पित्रधीना परं गर्भधारणादिभिर्महोपकारिणी मातैव / अत एवोच्यते पितृणां तु शतं / सन्दोहे | माता गौरवादतिरिच्यते' इति / एवं लोकोत्तरेतराप्तजनेष्वपराधक्षामणं कृत्वा तृतीयं सामान्यविभागमपराधक्षा-11 // 15 // मणायाह-'आहेण वा जीवेसुःमग्गद्विपसु अमग्गट्टिएस मग्गसाहणेसु अमग्गसाहणेसु'त्ति / यद्यपि मार्गशब्देन / सम्यग्ज्ञानदर्शनचारित्रात्मको व्यवहारः शास्त्रे गृह्यते, परमत्र 'ओघेन वा जीवेष्वितिवचनान लौकिकव्यवहारमागों रोचनीयो राजामात्यादिकः / अतो मार्गस्थिता राजामात्यादिकाः प्रजापालनमार्गस्थाः,अमार्गस्थिताश्च शिल्पकर्मक्रयविक्रयादिकारिणो राजकुलव्यवहाराद् बहिर्गताः / तद्वयव्यतिरिक्तान् जनानाश्रित्याह-'मार्गसाधने'| विति / राजकुलाश्रितेषु चतुरङ्गसैन्यादिसंश्रितेषु, अमार्गसाधनेषु च शिल्पकर्माद्युपष्टम्भकजनेषु चेति / न चैतच्चतुष्टयव्यतिरिक्त ओघजीवसमूहो, यो गर्दाविषयः स्यादिति / यद्वा-नैतच्चतुष्टयव्यतिरिक्तो जीववग एव नास्तीति / आटव्यादयोऽपि सन्ति / अपराधस्तु तेषामपि क्षम्य एव, परंते व्यवहाराविषयाः इति न गृहीताः। प्रोक्तचतुष्टयविषये किमित्याह-जंकिंचि वितहमायारिय'ति / अत्र यद्यपि 'जण्ण'मिम त्युपक्रम एव यच्छब्देनोपक्रान्तं तथाप्यत्र यत् यत्किञ्चिदित्युच्यते, तत् यत्किञ्चिदित्यस्याखण्डस्य 4 किश्चिदर्थे सम्भवात् / यद्वा-'जं ण'मित्यत्र यच्छन्दोऽव्ययं, सप्तम्यन्तं च तत् / ततो येष्वईदायेषु पूज्याराव्यादिष्विति योजयित्वा व्याख्येयम् / 'तस्स मिच्छामि दुक्कड मिति तु समानमुभयत्र / किं ISI कृतस्य गत्याह-'यत्किञ्चिद्वितथमाचीणमिति / लोकोत्तरेषु अहंदादिष्वाप्तेषु लौकिकेषु मात्रादिषु ओघेन KI मार्गस्थितादिषु च यद्यत्तेषां भूमिकामाश्रित्याचरणीयं तन्नाचीर्ण,विपरीनं वाऽऽचीण,तस्य वितथत्वमवबुध्याधुना MP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust