________________ आगमोद्धारककृतिसन्दोहे वार्तिकम् // 148 // करण | य एएसिं गरिहामि दुक्कड'मिति / गर्हाप्रवृत्तश्चायं निर्मलबोधः धर्मलिङ्गषु 'पापजुगुप्साऽथ निर्मलो बोध' इत्युक्तेः निर्मलबोधयुक्तत्वाच / गर्हायास्त्रिधा विभागं करोति-आद्य लोकोत्तराराध्यविषयं, द्वितीयं लौकिका- पञ्चसूत्रराध्यविषय, तृतीयं च सामान्यविषयम् / तत्राधे विभागे तावदाह-"जण्णं अरिहंतेसु बा सिद्धसु वा आयरिएसु वा उवज्झाएसु वा साहूसु वा साहुणीसु वा अण्णेसु वा धम्मट्ठाणेसु माणणिज्जेसु पृयणिज्जेसु"त्ति / अत्र यदित्यस्याग्रे वक्ष्यमाणेन 'जं किंचि वितहमायरिय'मित्यादिना ग्रन्थेन सह सम्बन्धः / परत्र स्थितस्य यत्किञ्चिच्छब्दस्य सामान्यं किञ्चिदित्यर्थस्तेन नात्र यच्छब्दप्रयोगस्य चिन्त्यता। यदित्यनेन सामान्यं निर्दिश्य सर्व दुष्कृतमाह-ततश्च न सूक्ष्मवादरादिदोषः। णमिति वाक्यालङ्कारे। तथा चास्य तादृक् प्रत्नत्वं यद् यत्र काले वाक्यालङ्काराय लोके गंकारस्य प्रयोगो जायमान आसीत् / किञ्च-नियमोऽयं शास्त्रीयो यदुत-निन्दा आत्मसाक्षिकी स्यात् , परं गर्हा तु परसाक्षिक्येव 'परसक्खिया हु गरहे तिवचनात् / ततोऽत्र 'ण'कारेण वाक्यालङ्कारार्थेन ज्ञापयति-यत्परोक्षानप्यर्हदादीनात्मना साक्षात्कृत्य तद्विषयकस्य वितथाचरणादेः 'करोमि गर्दा मिति / अत एव तथाप्रयोजनाभावात् प्राक्तनेषु वाक्येषु न क्वापि प्रयोगो णंकारस्येति / 'अरिहंतेसुत्ति। यद्यपि 'गुरावेकश्वे'त्यनेनैकस्मिन्नप्यर्हति स्यादेव बहुवचनं, परमत्र प्रागेव 'जे एवमाइक्वंती'त्यादिनाऽऽविष्कृतमेवाहतां बहुत्वमस्ति / किञ्च-कालस्यानादित्वात् अतीता अनन्ता, अनन्तत्वाच्चास्यानन्ता एष्यन्तोऽर्हन्तः, केवलं जैनमेव शासनमर्हदादिस्थानकानां परोपकारप्राधान्येनाराधनादान्त्यिमुपायंते इत्युपदिश्य देवत्वमप्याप्यं सोपायमिति च निवेदयति, नैकेश्वरा जैना यतः इति / अत्र च यद्यपि 'अरहंतारिहंतारुहंते'ति पाठा दृश्यन्ते, परं ते सर्वे 'उच्चाहती'| त्यनेनार्हच्छब्दादेव निष्पन्ना इति / यद्यपि रागद्वेषाधरीणां नामनात् इन्द्रियविषयादीनामरीणां घातात् KI // 14 // P. Ac. Sunratnasuri M.S. Jun Gun Aaradhak Trust