________________ // 143 // __ आगमो- केवलामेव निर्जरां साधयति, नाभ्युदमिति सुष्टुच्यते-रागद्वेषविषपरममन्त्र इति / ननु 'कम्मं अट्ठविहं त द्धारककृति-IN खलु अरिभूयं होइ सव्वजीवाण' मितिवचनात् 'नमो अरिहंताणं' इत्यत्र च निर्विशेष्यतयाऽरित्वोक्तेः शासने से वार्तिकम् जेने कर्माण्येवारिभूतानि, न चाष्टानां कर्मणामष्टपञ्चाशशतस्यापि प्रकृतीनां के अपि रागद्वेषाख्ये प्रकृती, सन्दोहे यदि च वैराग्यार्थमुक्त-'मायालोभकषायश्चत्येतद्रागसज्ञितं द्वन्द्वं / क्रोधो मानश्च पुनष इति समास| निर्दिष्टः // 11 // इति श्रीउमास्वातिभिः प्रशमरतिप्रकरणोक्तमाश्रीयेत, तदपि न रुचिरं 'रागबोसकसाया' इति नियुक्तभिन्नत्वस्य तयोः कषायेभ्यो ज्ञायमानत्वादिति चेत् / सत्यं, स्वरूपरमणो ह्यात्मा स्वस्व रूपाद्विचणन् मार्गद्वयं प्राप्नोति-परेषु पदार्थेषु प्रीतिरूपमप्रीतिरूपं च / तदेव च रागद्वेषशब्देन स्वरूप- | al चलनं निर्दिश्यते / अत एव सम्यक्त्वचारित्रापवर्गदेवगुरुधर्मादिष्वप्रतिमं धारयन्नपि प्रतिबन्धं वैराग्य मिति कथ्यते / जाते च तस्मिन् मार्गद्वये रागमार्गे मायालो भरूपयोः कषाययोः कर्मप्रकृतिरूपयोः | क्रोधमानरूपयोश्च द्वेषमार्गे आविर्भाव इति कर्मप्रकृतिषु तदुदयदर्शनाय क्रोधादिरूपतयोक्तौ, नियुक्ती स्वरूपमपेक्ष्य भिन्नतयोक्ताविति न कोऽप्यनाश्वास इति / एवं मोहतिमिरस्य रागद्वेषविषस्य चानि- . ष्टतमतया कृतेऽपि भगवता केवलिप्रज्ञप्तेन धर्मेण यदीष्टसाधकताशक्तियुक्तत्वं न स्यात्, स्यादेवापफलं || विघ्नवारणं, दरिद्रस्य निरुद्यमिनश्चौरलुप्टाकभयनिवारणमिवेतीष्टसम्पत्साधनसिद्धयर्थमाह-'हेतुः सकलकल्याणाना मिति / अव्यवहारराशिगतानामप्यसुमतामस्ति पर्याप्तत्वादिकल्याणप्राप्तिः, अन्त्यतः तीर्थप्रवृत्तिरहितकालीना अप्यसुमन्तो गच्छन्ति नाकितामपीति केवलिप्रज्ञप्तस्य धर्मस्य सकलकल्याणसाधकताकथनमनुचितमेवेति न वाच्यं / यतः त्रिपल्योपममाना नाकिगता स्थितिरेव तीर्थप्रवृत्तिरहिते युग्मिकाले // 14 // उपाय॑ते नाधिका. भगवद्भिः केवलिभिः प्ररूपितस्य धर्मस्य प्रवृतौ तु नाकिगता त्रयस्त्रिंशत्सागरमाना P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust