________________ // 142 / / / तथा च प्राक् तावत् श्रुतस्य धर्मस्य प्रामाण्यायैव तद्वक्तुः स्वरूपस्यान्वेषणं-वीतरागः केवली च || आगों- KI परमात्मा परम आप्त इति / तत्प्ररूपितस्य धर्मस्य धीमान प्रामाण्यमध्यवस्यति / अध्यवसिते / / पञ्चसूत्रद्वानाच तस्मिन् तस्याराधनाय प्रवर्तते प्रधीः। प्रवृत्तश्चाराधनाय तस्य प्रधीस्तदनन्यया भक्त्या | वार्तिकम् वासितो भवति / तथाभूतश्चेष्टानप्यनादिकालतो विषयानू स्पर्शादीन् दुःखरूपान् दुःखफलान् दुःखासन्दोहे नुबन्धांश्चावगच्छति / ततश्च यावज्जीवं तत्प्रहाणाय तद्तरागद्वेषदलनाय च चतुरश्चेतयते इति युक्तमुच्यते यदुत-धर्मः केवलिपज्ञप्तो रागद्वेषविषपरममन्त्र इति / मन्त्रोपमानेन च ज्ञाप्यते यद्यथा यथा मन्त्रस्य परिवर्तन तथा तथा तज्जन्यस्य गुणस्याविर्भावः। विषघातार्थं च मन्त्रस्य पुनः पुनरेवोपयोगो युज्यते / उच्यते चातः-"यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति / तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम्" // 1 // इति / परममन्त्रता चावश्यमनुकूलं फलत्येवेति ज्ञापनाय / न च बाच्यमभ्युदयसाधकत्वाद्धर्मस्य रागद्वेषहेतुकानां विषयाणां तद्भोगजन्यस्यानन्दस्यापि स जनयिता, स एव च तद्गतानां रागद्वषविषाणां परममन्त्र इति परस्परमत्यन्तं विरूद्धं च इति / यतः प्रज्ञप्तो हि धर्मः केवलिभिर्मोक्षस्य साध्यतामुद्दिश्येति प्रागुक्तमेव / न च रागद्वेषाद्यन्तरङ्गरिपुसङ्घाते जात्वपि मोक्ष इति सM केवलिप्रज्ञप्तो धर्मो रागद्वेषविषं विधुनात्येव, परं तस्य धर्मस्य कर्तारों द्विविधाः-सरागा बीतरागाश्च / | तत्र ये सरागास्तेषां यथा यथा धर्माध्यवसायस्तथा तथा निर्जरा तु भवत्येव, 'सम्यग्दृष्टिश्रावकविरतान|न्तवियोजके'त्यादिवचनात्, परं तेषां ये योगपुद्गलास्ते स्वस्वभावात् 'जोगा पयडिषएस' मित्यादिवचनादनुसमयमाददते कर्मपुद्गलास्तान् धर्मो मन्दकषायादिस्वभावात् शुभयति / तदुदये च जीवाः सुखिनो भवन्तीत्यभ्युदयेऽपि स हेतुः, परं प्राप्यः स, न साध्य इति / वीतरागाणामपि नियोगानां धर्मोऽयं | // 14 // Jun Gun Aaradhak Trust P.AC.Gunratnasuri M.S.