________________ आगमो 51 उच्यते च 'परंपरगयाण'मिति / सा परम्परापि केवलिप्रज्ञप्ताद्धर्मान्नान्यतः कुतश्चिदवाप्यते / परम्परायां च il पञ्चसूत्रद्धारककृति-KII | तस्यां क्रमशः क्षपणं रागद्वेपविषस्य जायते / तत एव चात्मसु अपूर्वापूर्वगुणप्राप्तिर्जायते, महान् काल- वार्तिकम वास्य / यतः पञ्चमषष्ठसप्तमगुणस्थानकानामवस्थानं देशोनां पूर्वकोटीं यावद्भवति / ततस्तत्र विघ्नना- IA सन्दोहे | शाय पठ्यते-'रागद्वेषविषपरममन्त्र' इति / अत्रेदमवधेयं यदुत-तिमिरं हि द्रष्टुरवरोधं विधाय दृष्टेरुपद्रोति; // 141 // | विषं तु व्यथामप्यन्तरुत्पादयति, यथास्थितां दृष्टिं च प्रतिबध्नाति, तद्वत् मिथ्यात्वमोहनीयोदयस्य || तिमिरोपमत्वात् स सदेवगुरुसत्तत्वगतां दृष्टिमवरुणद्धि / अप्रत्याख्यानादयस्तु दुःखरूपे दुःखफले दुःखानुवंधे च संसारे सुखादिरूपतामाभास्य विषयकषायहिंसापरिग्रहेषु जीवं तद्रसिकतया प्रवर्त्तयन्ति, अतो 'विषं विषया' इत्यप्युच्यते। विषयाणां विषवं न स्वरूपेण, यतोऽभिसरन्ति हि विषया अतीन्द्रियान् केवलिनोऽपि / तेषां विषत्वं तु रागद्वेषनिवासत्वेन ।अत एवोच्यते-'अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् / रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् / // 1 // इति, विषयाणां परिहाराय यदुपदिश्यते परमर्षिभिः तत्रापि 'सद्देसु जो गिद्धिमुवेइ तिव्य'मित्यादिना शब्दादीनां परिहारमनभिधाय तद्गतयोग्रॅद्विद्वेषयोरेवोच्यते परिहारः / ततः सुनिश्चितमिदं यदुत-विषयगतयो रागद्वेषयोर्विषेणोपमानं यथार्थमेव / ननु धर्मस्य भवतु महिमाऽनून एष, केवलिप्रज्ञप्तत्वविशेषणेन किमिति चेत् / सत्यं, वचनं हि श्रयमाण प्रागेव तत्तावत् स्वप्रामाण्याय वक्तुः स्वरूपमन्वेषयितुमात्मानं प्रवर्तयति / यतो विरला एवं विश्वे वस्तनां IR यथार्थतया स्वरूपस्य वेत्तारः। तत्रापि धर्माधौं तु नातीन्द्रियवेदिनमन्तरा वेत्तुमलम्भूष्णुः कोऽपि / IS ज्ञातमपि वस्तुस्वरूपं स एव यथावद्विभावयितुमलं स्यात. यः स्याद्रागद्वेषै रहितः / अत एवोच्यते- DI // 14 // 'आप्तवचनमागमः, अभिधेयं वस्तु यथावस्थितं यो जानीते . .यथाज्ञातं चाभिधत्ते स आप्त' इति / VIP.AC. Gunratnasuri M.S. . Jun Gun Aaradhak Trust