________________ द्वारककृति R शमरूपं लक्षणं, तच्चास्तिक्यादीनां संवेगान्तानां चतुर्णा फलरूपमिति / श्रीहरिभद्राचार्या विंशतिकापआगों | करणे उत्पत्तावास्तिक्यादीनां पश्चानुपूर्वीक्रमस्याभ्युपगतत्वात् मतः केवलिप्रज्ञप्तस्य धर्मस्य बोधिरेव पञ्चसूत्र सम्यक्त्वापरपर्यायः / मोहतिमिरांशुमालीति / अत एवोच्यते-'तमतिमिरपडलविद्ध सणसे ति श्रुतस्तवे, वार्तिक 'द्विविधमनेकद्वादशविध महाविषयममितगमयुक्तं / संसारार्णवंपारगमनाय दुःखक्षयायाल' मिति तत्वार्थभाष्ये . सन्दोहे. द्वादशाङ्गतीर्थदेशनाप्रस्तावे। न ह्यनन्तरं जायमानं फलमेव फलतयोच्यते, किन्तु अनन्तरपरम्परयोरेकत-RI // 14 // | रेणापि उभयेनापि च / अत एव च प्रयोजनाख्यानुबन्धस्यानन्तर-परम्परप्रयोजनमभिव्याप्याख्यायते IS फलवत्ता / तथा च केवलिमज्ञप्तधर्मावाप्तेरेवानन्तर्येण पारम्पर्येण च जायमानानि सकलानि फलानि | K मोक्षपाप्तिपर्यवसानानि ज्ञेयानि / अत्र तु मोहतिमिरांशुमालित्वकथनेन तु जायमानमनन्तरं फलमेवाम्नातं / al किश्च जाते मोहतिमिरस्य ध्वंसे अवश्यमङ्गी रागद्वेषधातनतत्परः स्यात् / अत एव च संवेगं सम्यक्त्वलक्षणतया | वर्णयन्ति विद्वांसः। तथाविधां तस्यावाप्तबोधेरवेक्ष्यैव दशां सावधप्रवृत्त्यादिसपापव्यापारभृतानपि सम्यग्दृशो | | देशविरतिमतो देशविरतांश्च श्रीमूत्रकृताङ्गे गणधरा धार्मिकपक्षतया निश्चिन्वते। प्राप्तौ च सम्यक्त्वस्य. IN | मिथ्यात्वमोहनीयस्यैव भेद उपयुक्ततमस्तथापि तद्भदात् तद्विभागाच प्रागेव चारित्रमोहनीयरूपानन्तानु बन्धिनामुपशमक्षयादीनां स्वीकुर्वत आचार्या आवश्यकताम् / अनन्तानुबन्धिशमस्तु प्रागेवापूर्वकरणे। तेन न | जातं सम्यक्त्वं तद्वयनकं, अभिव्यक्तिस्तु तत एवेष्यते, क्रोधकण्डूयाऽपगमेऽपि तद्व्यपगमादेवापूर्वकरणाज्जात एव असाधारणः पक्षपातः शमवति भगवति, तन्मात्रप्रतिबद्धता च शमरूपा सम्यक्त्वादनन्तरमेवाभिव्यज्यते / ततश्च यथार्थमुक्त-मोहतिमिरांशुपाली केवलिप्रज्ञप्तो धर्म' इति / लब्धसम्यक्त्वा अपगतमोहतिमिरा अपि जना गुणस्थानानां परम्परां साधयित्वैव शक्नुवन्त्यपवर्ग साधयितुं, नान्यथा। VIP.AC. Guriratnasuri M.S... कर के. सा. कोवा // 14 // Jun Gun Aaradhak Trust