________________ द्धारककृति सन्दोहे RI इत्याद्यवोच्यते / यच्चात्र जिनेश्वरमात्रप्ररूपितस्य धर्मस्य केवलिपज्ञप्ततयाऽऽख्यानं शरणीकरणं च तत् | बागमो-1 न धर्मस्य स्वरूपे भगवतां जिगेश्वराणां जिनत्वद्योतकातिशयानां प्रभावः, किन्तु केवलित्वस्यैवेति द्योतनाय |पञ्चसूत्र सर्वेषां जिनाजिनानां केवलिनां समानधर्मप्ररूपणा पदार्थस्वरूपानुपातित्वात् सर्वेषामपि समानेतिज्ञापनाय |B वार्तिकम् च / किञ्च-मङ्गलव-लोकोत्तमत्वस्वीकारादिपूर्वकमेव शरणं स्वीकत्तुं योग्य, परमेतस्याराधनासूत्रत्वात् फलरूपमेव शरणं स्वीकृतं / प्रतिक्रमणादिषु क्रियासुत्रत्वात् केवलिप्रज्ञप्तस्य धर्मस्यापरेषां चार्हदादीनां स // 136 // मङ्गलवलोकोत्तमत्वस्वीकारपूर्वक एव शरणत्वस्वीकार इति / किश्च-जैने हि शासने धर्मिणां धर्माधारतयै वाराध्यता। नहि कस्याप्याराध्यताऽत्र व्यक्ति जातिलिङ्गात्मना, परं धर्मो न हि मूर्तिमान्, तथा च कथं तस्य पर्युपासनादि, ततो धर्मवानेव पर्युपासनायां ग्राह्यः। अत एव च परमेष्ठिपञ्चकनमस्कारो महामन्त्रनयाऽऽराध्यते, पूज्यन्ते च तद्गता अर्हदादयः / अत एव च पारमाऽपि-'वंदामि नमसामी'त्यादीनां पदानां निरुपमानो न्यासः। 'पज्जुवासामि'त्ति / अस्यैव च 'कल्लाणं मंगल'मित्यादिपर्युपास्यपदौपम्येन न्यासः। अत्रापि च प्रागुपन्यस्तानामहदादीनां केवलिपज्ञप्तधर्मवत्ताप्रभावेनैव शरण्यता तथापि पर्युपास्या मूत्ती इति, तत एव हेतोस्तेपां प्रागुपन्यासः, परं नैतावता धाराधनेन धर्मप्रभावः क्षीणः, किन्तु - तद्वत्पूजाद्वारैव धर्मस्य सप्रभावत्वात् पुष्टतामापनो धर्मप्रभाव इत्याह-'तथेति / अर्हत्सिद्धसाधुवदन्यूनाति14 रिक्ततयैव धर्ममपि शरण कुर्वे इत्याह / ज्ञापयति च धर्मिणां शरणस्य स्वीकारादनु धर्मस्य शरणस्वीकारेण PA यदुत-बहुजननमनो धर्म इतिन्यायेन सर्वेऽप्यास्तिका धर्मस्य वहुमाने सादरा एव, परं त एव धर्मबहु। मानिनो वस्तुतो, ये स्युर्धर्मपरायणानामर्हदादीनां बहुमाने रता नापरे / अत एव जैनशासनबहुमानिनामपि IS| अहंदादीनां पश्चानां परमेष्ठिनामाशातनायां मिथ्यात्वमाम्नायते / गोशालजमाल्यादयो हि भगवतः श्रमणान्म- 11 | // 136 VIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust