________________ * सन्दोहे आगमो- IS| तेन सर्वदा सर्वावसरेषु तद्विधानमावश्यकं दर्शितं, परं चासंविभागकारिणां साधूनां सुख- 5/ पञ्चसूत्रद्धारककृति- शय्याया अभावमुक्त्वा दुःखशय्यावत्त्वं ज्ञापयित्वा विराधककोटौ प्रवेशं निष्टङ्कयन्ति निष्णा KI वार्तिकम | इति / किञ्च-गच्छस्य साध्वीवर्गस्य सारणायाः कर्तुर्योग्यस्याभावे आदातुकामानामप्यभ्युद्यत विहारं निषिद्वं यत्तदादान तत् परोपकारनिरतत्वगुणवत्त्वादेव' साधूनां महात्मनां / अन्यच्च-स्वर्गादिसा म धनपटिष्ठानामपि सुविहितानां मुनीनां निर्यामका भवन्त्यष्टचत्वारिंशत्सङ्ख्याका यत् तदपि परोपकारनिरतत्वा देव। स्थविरकल्पस्य परोपकारप्रवणत्वेन ह्यावश्यकता, अत एव न ननाटानामिव ग्लानमुन्यादीनां गृहस्थकरणिसमाश्रयणी स्थविरकल्पिकेषु अपि वालग्लानवृद्धाचार्यादिवैयावृत्त्यसंविभागार्थमेव च मण्डल्याश्रयणामण्डल्युपजीविका हि साधवः गोचराग्रमवतीर्णाः सकलश्रमणसङ्घयोग्यमेवाददते / पात्रादिकस्य सनिर्योगस्य धरणमपि नियतं स्थविराणां साधुगच्छोपग्रहार्थमेवेति सत्यमुक्तं-'परोपकारनिरताः' इति / अत एव च ग्लानबालादिवैयावृत्याद्यकरणे प्रायश्चित्तमनगाराणामवसीदतामनगाराणामुपेक्षणेऽपीति / यथास्थितपरोपकारो हि तैरेव कर्तु शक्यो, ये स्वयं कामभोगपकावसन्ना न स्युरित्याह-'पद्मादिनिदर्शनाः' इति / यद्वा निरुपमेयगुणा अप्यहंदाद्या महागोपादिदृष्टान्तवर्णनीया एव विदुषां / ततः साधुमहात्मनामपि दृष्टान्तवर्णनीयताया दर्शनायाऽऽह-'पद्मादिनिदर्शना' इति / तत्र पद्मनिदर्शनं-'जहा पोम्म जले जाय' मित्यादिनोत्तराध्ययन सूत्रसूत्रितं यथार्हमाहनतादर्शकं / यद्वापद्मशब्देन पद्मपत्रं, गाह्यं / तथा च पुष्करपद्मपत्रेण यथा निर्लेये | तथा निर्लेपगुणं धारयतो दृष्ट्वा लोकास्तान् पुष्करपद्मपत्रतया ख्यान्ति / पुष्करपद्मपत्रेण लोकेषु ते निदर्यन्ते इति श्रीपर्युषणाकल्पोक्तः 'कंसे संखे' इत्यायेकविंशतिपदोक्तानि निदर्शनानि ज्ञेयानि, IN // 13 // A आदिशब्दस्य प्रकारार्थत्वात् / यद्वाऽऽदिना शारदसलिलादीनीह निदर्शनानि विवक्षितानि / ततस्तन्मध्य- 15 HOS