________________ / आगमो 17 वातिकम // 13 // सुविहिता आराधका मोक्षमार्गस्यात्भवीर्यस्य. मनोवाकायभेदस्य अनिगृहनेन पराक्रमणादेव / उच्यते च-11 'जंजइ य जहाथामति / अत एव क्वचिद्वीर्याचारस्य स्वस्थानापेक्षया मनआदिभेदत्रयस्य ग्रहणेऽपि पञ्चवसत्र क्वचिद्विषयस्य प्राधान्यात ज्ञानदर्शनचास्त्रितपसां भेदान् गृहीत्वा षड्विंशद्विषो वीर्याचार इति कथ्यते / द्वारककृति तदेवं विधानां पञ्चानामाचाराणां ज्ञायका एवाराधका मोक्षस्य, त एव शरण्या इत्युक्तं-'पञ्चविधाचारसन्दोहे ज्ञायकाः' इति / एवं मोचयित्वात्मानं भवराक्षसात् सिद्धिसाधनं विधाय स्वरूपावस्थां साधयताऽऽत्मना चतुर्णा शरण्यानां शरणमूरीकर्तुमुद्यतेन सद्भूतगुणबहुमानिना साधून शरणं कुर्वता. साधुगुणानां विहितमनुस्मरणं / यथाच सुविहितात्मानः साधवः प्रशान्तगम्भीराशयादिभिः स्वरूपप्रख्यापकगुणैरीं विधातुं शरणं तथा परोपकारनिरतत्वगुणेन सविशेष ते तथा। किञ्च-विपश्चितां गुणगृह्यत्वे समानेऽपि परोपकारपरायणतागुणो विशेषेण स्वीकार्यताहेतुरित्युक्तं-परोपकारनिरताः' इति / विदिततममेतद्विदुषां-यत् सिद्धिसावधानाः सुविहिताः ग्रहणासेवनाशिक्षायुग्ममनधिगम्य नालं सिद्धिं साधयितुं, शिक्षाद्वयं च स्थविराद्यनगारसन्निधिसेवाप्राप्यमेव, सुविहिताश्चनवरतं शैक्षादिभ्यो महता प्रयत्नेनापि ग्रहणासेवनाशिक्षाद्वयशिक्षणपटुतामेव बिभ्रते। ततः प्राक्तावत् सर्वेऽपि सुविहिताः साधवो ग्रहणासेवनाशिक्षादानपरोपकारनिरताः। अत एवोच्यते श्रुतग्रहणस्य फलं-ठिओ य ठावइस्लामि' त्यादि / किञ्च-सुविहिताः साधवो यत् सम्भोगव्यवहारेण भिक्षाभोजनादि कुर्वते, तत् बालग्लानशैक्षद्धतपस्व्याचार्योपाध्यायादीनामर्थायैव / अत एवोच्यते मण्डल्यनुपजीविनामपि साधूनां भक्षणविधौ-'साहवा तो चियत्तेणं निमंतिज जयं जई त्यादि / किञ्च-सामाचारीष्वपि दशस्विच्छाकारादिरूपासु निमन्त्रणा छन्दना चेति सामाचारीद्वयं M साधूनां संविभागकरणेन. परांपकारकरणार्थमेव / अन्यच्च चक्रवालसामाचारीरूपमिदमपि युग्मं | K