________________ द्धारककृति ___ आगमों- Ini ज्ञानाचार आदौ / कालाध्ययनादिज्ञानाचाराऽऽराधनालब्धाचाराङ्गादिज्ञाना हि मुनयो निश्शंकितादि-12 पञ्चसूत्र गुणैर्दर्शनाचारैः स्वयं युक्ताः स्युः, परानपि तत्र योजयितारश्च / लब्धस्य व्यवहाररूपस्य वार्तिकम् द्रव्यरूपस्य वा सम्यक्त्वस्य निर्देशादिभिः सदादिभिश्च द्वारर्जीवादीनां तत्वानामधिगमादाचरितज्ञानाचार सन्दोहे लब्धसिद्धान्तज्ञानास्तस्य निश्चयरूपतां भावरूपतां वाऽऽनयेयुः। किञ्च-यथा यथाऽतिशयशमरससागरं / // 129 // सिद्धान्तसागरमवगाहन्ते मुनयस्तथा तथा सविशेषरूपेण प्रभावनान्तान् दर्शनाचारानाऽऽचरेयुः / वादिनैभिII तिकादयो हि प्रभावकाः शासनस्यावगाढागमसमुद्रा एवेति निष्पन्नानां ज्ञानाचारे सुकराऽऽवश्यकी च दर्शनाचार-il निष्पत्तिः।लब्धज्ञानदर्शनानामपि चेन्न चारित्राचरणचङ्गिमाऽवश्यं स विराधको देशेन,भगवत्यादौ तथा भणनात् / / तस्मात सर्वाराधनार्थिभिनिदर्शनधरैरपि चारित्रायोद्यन्तव्यं / किञ्च चारित्रयुतयोः सम्यग्दर्शनज्ञानयोर्मोक्षमार्गत्वं 14 नान्यथा, 'एकतराभावेऽप्यसाधनानी'त्यादिभाष्यकारायुक्तः। तथाऽऽवश्यकत्वं चारित्राचारस्य। किश्च-मिथ्यादृशां | सत्यपि शास्त्रादिबोधे यदज्ञानित्वमुच्यते, तज्ज्ञानफलरूपस्य चारित्रस्याभावादेव, तत्वदृष्टथा च 'ज मोणंति | पासह तं सम्मति पासहे' त्यार्षवचनात् / परमसाफल्यं हि चारित्राचरणयुक्तयोरेव सम्यग्दर्शनज्ञान| योरित्यप्यावश्यकताऽन्यूना चारित्राचारस्य / अवस्थिताश्च सुविहिताश्चारित्रे संवरसाधनलब्धसामर्थ्याः | 'संवरफलं तपोवल मितिवचनात् 'संजमेणं तवसा अप्पाणं भावेमाणे त्यादिवचनात् 'तवसा धुणइ कम्मरयं अबोहिकलुसं कड'मित्यादिवचनाच्च द्वादशविधेऽप्यनगाराणां कर्त्तव्यतयोपदिष्टे निर्जराहेतुकेऽनशनादितपसि रता अवश्यं स्युरिति, तदनन्तरं तप आचाराणामुपन्यासः / यद्यपि सर्वेऽपि मुमुक्षवो मोक्षसाधनबद्धकक्षाका नाबानागटिषद्यच्छन्ति. परंन सर्वे समानसंहननाः, न चैकसंहनना अपि समानसामाः परं पण तेषां महानुभावानां महर्षीणामस्त्याराधकत्वं, हेतुस्तु तत्रात्मवीर्यस्यानिगृहनेनोद्यमनमेव / तथा च सर्वेऽपि P.P.AC. Gunratnasuri M.S.. . . Jun Gun Aaradhak The // 129 //