________________ मागमो सन्दोहे // 128 // मारादिवत् पापग्रहणपरायणः। अत एव चैकेन्द्रियादीनामसामर्थ्यमतामप्यनादिकः संसारः सङ्गच्छते / KI संगच्छते च तथाविधप्रवृत्तियुतानामपि महात्मनां विरमणभावादेव निष्पापत्वं / यद्यपि त्याज्या एव योगाः समस्ता अपि, न च तदन्तराऽपवर्गावाप्तिः, परं न . निस्साधनो। वार्तिकम् / मोक्ष इति तत्साधनाय - निरवद्ययोगानामासेवनमावश्यकमिति सामायिकचारित्रभेदरूपमेव | सावद्ययोगविरमणं साधुपदाभिलाषुकैरधिक्रियते / अत एवात्र साधुशरणाधिकारे उक्तं-कीदृशाः साधवः शरणमिति शङ्कानिरासपरं पदं 'सावद्ययोगविरता' इति / ज्ञात्वा श्रद्धायाभ्युपेत्याकरणं हि विरमणं / तेन कायबुद्धिपूर्वकसंसर्गवतामेव सावद्ययोगविरमणं, नान्येषामितिनिरस्तं / देशसर्वविरतिविभागस्य यतो नावकाशोत्र, स्पष्टतयैव साधूनां भगवतामेव शरण्यत्वस्वीकारोऽत्र यतस्ततो नात्र सर्वशब्देन सावद्ययोगस्य विशिष्टता कृता. साधूनां भगवतां सर्वेषामेव सावद्ययोगानां विस्मणस्य यांवजीवमावश्यकत्वादिति / सम्पादितक्षयोपक्षमाद्यवस्थातो मोहनीयादात्मनां दर्शनचरणयुगलस्य सत्यां प्राप्तौ अवश्यं निखद्ययोगानामासेवनं स्यात् / अत एव च कालानध्यायादावपि प्रायश्चित्तं / मोक्षमार्गप्रयाणं च पुरतो ज्ञानाद्याचारपश्चास्यासेवनत एव / यथा यथा चारित्रिणामाचारपञ्चकस्य साधने वीर्योत्साहस्य वृद्धिस्तथा तथा तेषां मोक्षमाप्रासन्नतमत्वादि भवतीत्यावश्यकं मुमुक्षूणां ज्ञानाधाचारपञ्चकस्याराधनम् / तच्च तदीयज्ञान| पूर्वमेवेत्याह-'पञ्चविधाचारज्ञायका इति / पञ्चविधश्चाचारो ज्ञानादिविषयभेदात् / तत्र द्वादशाङ्गस्य प्रणयनमेव मोक्षार्थिजनासेवनीयस्य शासनस्य मूलं, तत्मवृत्तिरेव तीर्थस्य प्रवृत्तिः, श्रुतपथप्रकाशननाशेनैव | तीर्थस्याप्यवसानमिति / 'गीयत्थो य विहारो'त्ति 'सज्झायसमं तवो कम्म ने' त्यादि. च वचनं, वीतरागशासनगतमनुस्मरतामादौ ज्ञानाचार स्याष्टविधस्य समाचरणं तदर्थमेव च तज्ज्ञानस्यावश्यकमिति PL // 12 //