________________ अमा सन्दोहे कायपातितामभव्या अपि केचन भव्या अपि अनन्तशो भगवदुक्तानुष्ठानपरायणा जाता जायन्ते भवि-11 ध्यन्त्यां भविष्यन्ति, परं नैतावद्भिरप्यनुष्ठानैर्भद्रास्ते मोक्षमार्गमप्यवाप्नुवन्तोऽवाप्नुवन्ति अवाप्स्यन्ति त पञ्चसूत्र वा / लब्धे च मोक्षवीजे न कोऽपि अपार्धपुद्गलावर्तादधिकं संसारं बम्भ्रंमति, किन्तु अवश्यमपवर्ग- वार्तिकम् मेवाप्नुवन्तीति / चेतःपरावर्तका भगवन्तोऽर्हन्त इत्यवश्यं शरण्याः। जाने च तथाविधे चित्तपरावर्ते सिद्धा भगवन्तः साधनन्तकालीनानन्तपूर्णताधारणादिरूपतया ज्ञाताः सन्तश्चेतसोऽनपवर्णनीयां विशुद्धिमुत्पादयन्ति / / तदेवं द्वयेप्येते परमेष्ठिनश्चेतसः परावृत्तौ शोधने चोपकारिणः, परमपवर्गस्य प्राप्तिर्न चेतामात्रवृत्त्या IST किन्तु चास्त्रिानुष्ठानेनैव / यद्यपि ज्ञानादिवच्चारित्रमप्यात्मगुण एव / अत एव च कर्मस्वष्टसु तस्य IN चारित्रगुणस्य मोहकं दर्शनमोहसहचरं कर्माभ्युपगम्यते, अभ्युपगम्यते च सयोग्यादीनामपि यथाख्यातनामकं चारित्रमिति / सत्येवं चारित्रस्यात्मगुणत्वेऽपि तस्याविर्भावो रक्षा / वृद्धिः पराकाष्ठाधिगतिश्चेत्येतत् सर्व HI ग्रहणासेवनाख्यद्विविधशिक्षाया अधीनमेव / शिक्षाद्वये चाधिगत एव चारित्राविर्भावाद्या भवन्ति, तत एव च सकलेन्द्रियाणामपि न शिक्षादेरयोग्यानां चारित्रसत्तादि शिक्षाद्वयं च प्रागुक्तं नातीतेभ्योऽर्हद्भ्यः, | तत्सत्त्वकालेऽपि नैते सर्वतीर्थयोग्यक्षेत्रेषु यावजीवं सर्वदा विहारिणः / नचाशरीराः सच्चिदानन्दपूर्णा | अपि सिद्धा भगवन्तस्तव्यं विधातुमीशाः, सर्वत्र क्षेत्रे काले च तच्छिक्षाद्वयस्य प्रचारमनगाराः साधक एव निर्ग्रन्थाः कुर्युरिति / वस्तुतस्तेषामापत्राणादिधर्मयुक्नत्वात् शरणार्हतामभिमन्यमान आराधक आह="तहा पसंतगंभीरासय'त्ति / तथाशब्देन प्रकारसादृश्यवाचिना पूर्वोक्तशरणद्वयमकारस्य तुल्यतां दर्शयनिदमाह-यदुत एते भगवन्तोऽनगारानाईदादिवद् वीतरागसर्वज्ञतापदाः। यथा अर्हन्तः तीर्थस्थापनेन | मोक्षमार्गस्य प्रवर्तकत्वात् कृतकृत्या असाधारणोपकारिणश्च, सिद्धाश्च भगवन्तः सर्वदा साधनन्तभङ्गेन