________________ आगमो द्वारककृति सन्दोहे // 124 // 'लोकाग्रमुपगतेभ्य' इति / एते बुद्धत्वाद्या जैनानां सिद्धत्वाविनाभूता . इति तद्ग्रहणेन तेऽपि गुणा उक्ता / एवेति उपलक्षणदृष्ट्या बुद्धत्वाद्याख्यानं नासङ्गतमिति / नन्वर्हतां भगवतां श्रुतादिकर्तृत्वात् स्यादेव / पञ्चसूत्रः भयत्राणादिकारकत्वेन- शरण्यत्वाच्छरणीकरणं, भगवतां सिद्धानां तु सर्वदाऽकरणवीर्यत्वात् न किमपि / वार्तिकम् भवभयार्तानां त्राणं विधातुं शक्तास्ततश्च तेषां शरणीकरणं न कमप्यर्थं पुष्णातीति चेत् / सत्यं, परं जगति ये / सर्वे धर्मास्ते आस्तिकानां मोक्षपर्यवसाना एव / अत एव त एवास्तिका .च्यन्ते, ये जीवानां कथञ्चि| दस्तित्वं नास्तित्वं श्रद्दधानाः कर्मणां कर्तृतां भोक्तृतां मोक्षस्य सच्चं तदुपायानां च सत्चमात्मरुच्याऽभिः | | प्रयन्ति, तथा च मोक्षश्रद्धानमूलमेवास्तिक्यं, ततो मोक्षपर्यवसानफलाः सर्वे आस्तिकधर्मा इत्युच्यमानं l | युक्तिसङ्गतमेव / मोक्षश्च तत्वतः स एवोच्यते यत् अनावर्तनरूपेण सिद्धानां सिद्धत्वेऽस्थान, तथाच न / सर्वेऽप्यास्तिकाः सिद्धानामपुनरावृत्तिभावेन सदा चिदानन्दरूपतया चावस्थानमपेक्ष्यैव प्रवर्तन्ते प्रवर्तिध्यन्ते / चेति सिद्धाः सर्वेपामास्तिकानां स्वसत्यश्रद्धानद्वारेण शरणभूता एव / धर्मनेतृणां धर्मस्यापि सिद्धिपर्यवसानफलसत्त्वेनाविप्रतारकतमुपकारकत्वं च, नान्यथा। अत एवान्यत्रात्मन एवाव्यावाधज्ञानमयत्वादिखरूपमाख्याय भगवतां सिद्धानां नमस्कारे अविप्रणाश एव हेतुतया गीयते / तथाच साद्यनन्तमङ्गेन सच्चिदानन्द- II पूर्णतया तेषां भगवतामवस्थानमेव शरण्ये कारणं / ततश्च सुष्ठवेवोक्तं यदुत-सर्वथा कृतकृत्याः सिद्धाः / शरणं मे भवन्त्विति त्वनुवर्तत एव / न च वाच्यं तद्वदेव शरणमित्यपि पदं न वाच्यं, प्रागुक्तत्वात्तदप्यनुवर्तनीयं / तत्रात्रापि च शरणस्य मुख्यतया विधेयत्वादध्यवसायशुद्धये च तदुक्तेरावश्यकत्वात्, परमपदस्य मार्ग देशितवन्तो भगवन्तोऽर्हन्तस्ततो यथावस्थितमोक्षान्तसप्ततव्याः श्रद्धानमवाप्नुवन्ति, तत्प्राप्तेरेव सम्यग्दृशः सन्ती भव्या जहत्येव संसारगतं चित्तपातित्वं, एतदेव च मोक्षवीजं / यतोऽलब्ध्वा IS 124 //