________________ NON .. आगमो- ते हि समानरूपतयैकाकार एव वस्तुनि भवन्ति, बादरसम्परायचारित्रादीनां तथाविकल्पास्तव्यपदेश- KI पञ्चसूत्रद्धारककृति। | स्यैकत्वादेव / यद्वा विवक्षाधीनैव भेदोक्तिसिद्धिर्न तु वस्तुभेदाधीनेति। नापि भवेत्तादृशभेदापेक्षयैकत्वं / वार्तिक केवलस्य पर मेकविहं केवल मितिवचनं तु सर्वत्र जागरुकं प्रमाणरूपं च / किञ्च-मत्यादीनां यो वास्तवो / सन्दोहे भेदः स स्वरूपापेक्षः,केवलस्य तु भेदस्तद्वभेदापेक्षः। न च तद्वद्भेदे वस्तुनो वास्तवो भेदः,ततोऽपि केवलस्य न A // 12 // वैचित्र्यं स्वभावात् , परं सिद्धानां पार्थक्यात् तदीयं शाश्वतं केवलज्ञानमिति सिद्धा एव बुद्धशब्देन विशिष्यन्ते / / IS आगमेऽपि 'सिझंति बुझंतीति सिद्धानेव भगवत आश्रित्योच्यते इति / वस्तुतः केवलेन सर्वलोका / लोकावभासकेन सर्वेषु पदार्थेषु बुद्धेष्वपि परमयोगफलस्यान्त्यसामर्थ्ययोगसाध्यस्यापवर्गस्याभावान्न |S पूर्णबुद्धता तथाफलविकलत्वाद्विवक्षिता, प्राप्ते तु सिद्धत्वे केवलज्ञानावबुद्धपरमापवर्गप्राप्त्या बुद्धत्वस्य | al यथार्थता विवक्षितेति तदपेक्षया सिद्धा भगवन्त एव बुद्धा इति / 'बुद्धाणं बोहयाण'मित्यत्र तूच्यमाना | बुद्धता बोधकतायाः कारणत्वदर्शनाय, अत्र तु निरपेक्षा 'बुद्ध'त्तिशब्देन 'बुझंती'त्याख्यातेन वोच्यमाना निरपेक्षेति नात्र तपोऽभिप्रायसिद्धादयो ग्राह्याः। न च स चरमभववर्तिकेवलज्ञानेनोच्य मानाः सापेक्षा बुद्धा वाच्याः, किन्त्वन्यादृश एव, तेषां पूर्वोक्तानां सर्वथा कृतकृत्यत्वभावादित्याह-'पारगता' इति / जगति हि पारशब्दो. यद्यप्यरण्यादिपारेऽपि. वर्तते, तथाप्यत्र प्रकरणानिविशेषणत्वादन्यत्रानेकशः सूचनाच संसारसमुद्रस्यैव पारो ग्राह्यः / यतः श्रीऔपपातिकादिषु शास्त्रेषु महता विस्तरेण संसारस्य समदता तत्तारणप्रवणस्य संयमस्य च पोततोक्तेति / प्रस्ततेऽपि संसारससदस्य पारंगता इति ग्राह्य। कविरूढ्या'माप्तुं पारमपारस्य पारावारस्येति समुद्रस्य पाराधिगतिः दुष्करता च कथ्यते / अरण्यान्याः पाराधिगमेऽश्वादीनां वाहनानामुपकारिता, न च क्वापि संसारस्यः परतीरमापकाणां तपःसंयमादीनामु nasuri M.S.. /