________________ आगमो द्धारककृतिसन्दोहे // 120 // RRORNO हेतुश्च तुल्यसाधनेष्वपीन्द्रियादिषु ज्ञानोत्पत्तेर्वैषम्यं स्मृतैवैचित्र्यं प्रयत्ले महत्यपि कदाचिदस्मरणं कदाचिवल्पेऽपि प्रयत्ले स्मरणं केषाश्चिदनुभूतानां स्मरणं केषाञ्चित्वस्मरणं, जीवेष्वपि केचित्स्मृतिमन्तः पञ्चसूत्रविचित्रस्मृतिमन्तः स्मृतिशून्या दुष्करस्मृतिका अपि / किञ्च-जीवस्य ज्ञानस्वभावाभावे भवान्तरीयज्ञानं जातिस्मरणाख्यं न स्यात्, प्राक्तनभवीयतनुहृषीकाद्यभावादिति / पटुसंस्कारवतां पटुस्मृतीनां च भावान मवान्तरीयं मनस्तत्र तत्स्मारकं, मनसो नित्यत्वमणुत्वं च न प्रमाणसिद्धं न च वास्तवमित्यात्मैव | ज्ञानरूप इति, आत्मस्वभावभूतं च ज्ञानं केवलमेव, इन्द्रियार्थसंनिकर्षादिद्वारेण यावजागतीया पदार्थानां ज्ञानस्य कर्तुमशक्यत्वात् नात्मनामसर्वज्ञत्वे सर्वज्ञत्वस्य सम्भव इति / अभावे च सर्वज्ञस्य / नात्माद्यतीन्द्रियपदार्थदर्शी स्यात् / शास्त्राणि चैवमशेषाणि कपोलकल्पितदशामासादयेयुः। तस्मादम्युपेयं आत्मा ज्ञानमयत्वेन सर्वज्ञत्वरूपेण च। तथाभ्युपगमे च सिद्धानां भगवतां शुद्धात्मरूपत्वादवश्यमेव सार्वयं, | ततश्च सिद्धा ये ते बुद्धा इति कथ्यन्ते / बुद्धत्वं च निश्शेषोपाधिरहितत्वात् केवलित्वरूपमेवेति / किञ्चसिद्धत्वं हि प्रक्षीणसर्वकर्मत्वेन निष्ठितार्थत्वं, मत्यादीनि च ज्ञानानि न खाभाविकानि निश्चयेनैकस्य केवलस्यैवावरणभेदतत्क्षयोपशमभेदापेक्षया. मत्यादितया व्यपदेशात् / अत एव च मत्यादितारतम्यवतामपि पश्चानामपि ज्ञानावरणानां क्षये एकमेव केवलं क्षायिकस्वभावं / न च मत्यादीनामाविर्भावो, न च तेषां / शायिकत्वं, तथा च प्रक्षीणसर्वावरणानां सिद्धानां केवलज्ञानयुक्तत्वेनैव बुद्धत्वमवसेयम् / अत एव च नात्र / सविशेषणः प्रयोग इति / किश्च-अस्त्येव भवस्थकेवलिनां बुद्धत्वं निरुपचरितं, परं भवस्थदशाया एवं सान्तत्वान्न तदनाद्यनन्तं / अत एव च केवलज्ञानस्य स्वरूपतो मेदाभावेऽपि सयोग्यादिभेदेन केवलस्य / भेदोपन्यासः / यदि च केवलस्यान्यादृशो भेदोऽभविष्यत् प्रथमाप्रथमचरमाचरमादिभेदा नावक्ष्यन्त / / YE