________________ आगमोः द्धारककृति- सन्दोहे // 116 // | एव / तद्वदेव सर्वकालीनानां देवानां यदुपमातीतं सुखं 'नाटथादिसंनिरीक्षणादिसम्भवं तदपि प्रतिक्षण मनन्तकेवलज्ञानयुक्तत्वाज्जानन्त्येवेति कथं न तदपेक्षयापि सिद्धा नानन्तसौख्या इति / न च वाच्यं तर्हि अशुचिरसायदिजन्म दुःखमपि सिद्धानां सर्वकालीनं भविष्यतीति, यतः तद्दःखमशुचिरसाद्यास्वादादिजन्य वार्तिकम् तदनुभवितृषु स्यात् , 'इमे तु तद्वेतार इति ज्ञानजन्यं सुखमेवाप्नुवन्तीति / यथा स्वप्नानां द्रष्टाऽनुभवेन || सुखदुःखोभय वेदयति, परं सातिशयज्ञानवान तत्स्वप्नागमं जानानः ज्ञानजातं सुखमेवाप्नोति, नानुभवजं दुःखलेशमपीति न बाधः निरुपमसुखसङ्गतत्वे सिद्धानामिति / किञ्च-संसारो हि कर्मनृपाणामाज्ञया जन्माद्यवस्थामादाय कायपञ्जरानन्यवृत्तितया सदैव नारकादिकाश्चतस्रो गतीः परिवर्त्तमानस्य, जीवस्य Ki गर्भवासबाल्यजडत्वेष्टवियोगानिष्टसंयोगाधिव्याधिजराजीर्णत्वकुग्रामकुनरेन्द्रकुत्सितपरिवारपरिचारणादिभिदुःखैनिचितः। मुक्तानां च न कर्मपारतन्त्र्यं, न कायपञ्जरावरुद्धत्वं, न जन्मजराधिव्याधिजराऽन्तकादिदुःखं लेशेनापि वर्तते, न च भविष्यत्यपि भविष्यति, ततः सिद्धानां स्वाभाविकेनात्मसुखेन निरुपमे 2 नापरवशेनाव्ययजेन सुखित्वेऽपि जन्माद्यावाधाजानां दुःखानामभावादपि निरुपमसुखसङ्गता एव सिद्धा IN इति चक्तुं युक्ततममेव / अत एवाहुः . 'श्रीउमास्वातिभगवन्तस्तत्त्वार्थभाष्ये एतद्विषये-"संसारविषया- 10 तीतं, मुक्तानामव्ययं सुखं / अव्याबाधमिति प्रोक्तं, परमं परमर्षिभिः // 1 // स्यादेतदशरीरस्य, जन्तीनष्टाष्टकर्मणः / कथं भवति मुक्तस्य, सुखमित्यत्र मे शृणु // 2 // लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते / विषये वेदनाऽभावे, विपाके मोक्ष एव च // 3 // सुखो वह्निः सुखो . वायुविषयेष्विह कथ्यते / दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते // 4 // पुण्यकर्मविपाकाच्च सुखमिष्टेन्द्रियार्थजम् / कर्म| क्लेशविमोक्षाच, मोशे सुखमनुत्तमम् // 35 // सुखप्नसुप्तवत् केचि-दिच्छन्ति परिनिर्वृत्ति / तदयुक्तं // 16 // KANHAAN