________________ आगमो द्वारककृतिसन्दोहे // 114 // स्यायत्तः, अन्तशः पुण्यस्याधीनस्तच्च क्षीयते एवानुक्षणमुपभोगेन फलस्यापचीयमानं / एवं च दृश्यमान सर्वोऽप्यानन्दस्तत्त्वतो वर्तमानकालेऽपि भविष्यचिन्तादुःखापूर्णः / स च कथं पुद्गलानां पुण्यकर्मणी भवजी- पञ्चमंत्रवितस्य बाह्याभ्यन्तरसंयोगानां चानायत्तेन सिद्धानां सौख्येनोपमीयेत तोल्येत वेति / किञ्च-दृश्यमानः बार्तिकर सर्वोऽप्यानन्दो भ्रंशनांतरीयक एव, यतः स सर्वो बाघहेतोरुद्भवति, बाह्यहेतूद्भवं सर्व च कादाचित्कमेव, IN यतः कादाचित्कभवनं कारणोपनिबन्धनमिति विद्वत्पर्षदां सिद्ध एव प्रवादः / सिद्धानां तु सुखं पारमाथि- 1 कानन्दरूपं न कारणोपनिबन्धनं / प्रतिबन्धकानां कर्मणां सहकारिणां मर्यादाकारिणां च सातादीनां चाभावो | जायमानोऽपि न परिणामिकारणतामनुरुध्येत / सिद्धानामात्मैव तथासुखोद्भवे परिणामिकारणतामनुरुध्यते। स चाहेतुक एव, स्वस्वभावरूपत्वाचस्य, आत्मनश्चाविनाशिस्वरूपत्वादिति / शास्त्रेषु पठ्यतेऽपि-'तं कह भण्णइ / | सोक्ख सुचिरेण वि जस्स दुक्खमल्लियइति / या च यावती च सुखमात्राऽनुभूयते जीवितं धारयता सा | चेत् प्रतिपातिनी भवति, तदा तत्सुखमात्रायाः पर्यवसाने दुःखस्यापि तावत्येव मात्रा समुद्भवति, तत | एव सुखस्य विमानाधिपत्यस्य परां काष्ठामनुभवतः सुरानाश्रित्य व्यवनजातं दुःखं वर्णयता विदुषा प्रोच्यते शाख्ने यदुत-'त सुरक्मिाणविभवं चिंतिय चवणं च देवलोगाओ / अइबलियं चिय हिययं सय सकर जं न फट्टेई ॥१॥ति / एवं च संसारवर्तिन्या चिन्तादिदुःखग्रस्तया प्रतिपातजमहादु खसंवलितया | मुखमात्रयात दत्यन्तप्रतिरूपिण्याश्चिन्तादिदुःखरहितायाः स्वखभावरूपत्वात् सनातनभाविन्याः सिद्धानां भगवतां वर्तमानायाः सुखमात्रायाः उपमानं तुलना न स्यादेवेति सिद्धानां भगवतामानन्दस्य निरुपमा. / नतीच्यमाना सङ्गच्छत एव / यथा च जगद्वर्तिनी मुखमात्रा दुःखेन भिन्नत्वादनन्तरं पाताच नोपमानमायाति, तथा सा न पूर्णामिलाषेति चापि नोपमानपदमायाति / यतः सा पुद्गलबातविषयकेच्छाधीना, ISi // 11 // Jun Gun Aatadhak, Trust