________________ वार्तिकम् जीवाश्थानन्तानन्तसङ्ख्याकाः, यतो लोके यावदसङ्ख्येयाः सूक्ष्मनिगोदजीवानां गोलकाः, प्रतिगोलकं 1 पञ्चसूत्रआगमी षट्खपि दिक्षु एकैकाकाशप्रदेशहानिवृद्धिभ्यामसङ्ख्येया अवहगानाः अवगाहनायां चैकेकस्यामनन्तानन्ता द्वारककृति जीवा इति, जीवानां सङ्ख्या विचार्यते, न स्यादेवानन्तानामपि सिद्धिगतेः प्राप्तौ तद्व्युच्छेदाशङ्काकणोऽपि / / सन्दोहे किश्च-एकैकस्मिन्निगोदे सूक्ष्मे बादरे वा ये जीवा अनन्तानन्तसङ्ख्याकास्तेपां असङ्ख्येयतमोऽपि भागो / न कदापि सिद्धिमवाप्स्यति, किन्तु अतीतानागतकालीनाः सर्वेऽपि सिद्धाः सेत्स्यमाना जीवाः सर्वेऽप्येते // 111 // एकस्यापि निगोदस्य जीवानामनन्ततम एव भागे भवति, एतावति जीवसङ्ख्याने सत्यपि तद्व्युच्छेदशङ्कायाः प्रादुर्भावो महामोहोदयप्रभवः / परेषां च तथाविधेन वाक्येन व्युग्रहणादुरन्तानन्तभवसागरभ्रामकश्च / यथाहि दर्भाग्रबिन्दुप्रमाणस्य पानीयस्य शोषं . दृष्ट्वा अदृष्टापारपारावाराणामब्धीनामम्बुपूरस्य व्युच्छेदः शङ्कथमानो मौखर्यमेवाविष्कुर्यात् , तद्वदत्रापि तथाविधे भव्यजीवानामानन्त्ये परिमितक्षेत्र कालेन सिद्धान् दृष्ट्वा सर्वभव्यव्युच्छेदशङ्कापि मौखर्यातिरेकेण न किश्चिदन्यद्वयक्तीकुर्यादिति / अत्र Dil दर्भाग्रबिन्दुजलधिजलगतं दृष्टान्तं सङ्ख्ययाऽननुरूपमपि व्यावहारिकतयोक्तं ज्ञातव्यमिति, यतो दर्भाग्र गतबिन्दुसमुद्रसलिलस्याध्यक्षं क्षेत्रमाश्रित्य सङ्ख्येयगुणेनैव तारतभ्यं, न त्वसङ्ख्येयेन गुणेन, न चानन्तगुणेन, सिध्यमाननिगोदजीवानां त्वेकमपि निगोदगतजीवसमुदायमाश्रित्य तारतम्यमनन्तगुणेनैव 9 भावादिति / न च वाच्यं तर्हि भव्यानामपि सतां मुक्तेरभावे भव्यत्वस्य निष्फलता अभव्यनिर्विशेषता वा I तेषामिति / यतो नहि जगति यावन्ति बीजानि तानि प्रादुर्भावयन्त्यजुराणि, न चाकुरप्रादुर्भावाISM भावमात्रेण बीजत्वस्य निरर्थकता अवीजसमानता वोद्भाव्यते केनापि विपश्चिता, ततश्च भव्यानां यथा // 19 // यथा तथाभव्यत्वपरिपाको जायते तथा तथा ते पदमव्ययमाप्नुवन्ति, व्यवहारराशिगतानां नराणामेव PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust!!!