________________ पञ्चसूत्र IM वार्तिकम् / आगमी- याऽधिवसन्ति, न पौरवन्निवासितया, ततो योग्यमेवोक्त भगवतः सिद्धानधिकृत्य सिद्धिपुरनिवासिन इति / द्वारककृति- समृद्धतम निराबाधं पूर्णसाधनोपेतं परचक्राऽनाक्रम्यं नृपतिस्थानं जगति मतं पुरमिति अनन्तचतुष्टय- Dil ऋद्धिकलिताया जन्मजराव्याध्यन्तकाद्याबाधारहितायाः सम्पूर्णसौख्यरूपायाः कर्मनृपसैन्यानाक्रमणीयायाः | सर्वाधिपतीनां सिद्धानामनन्यस्थानभूतायाः सिद्धेः पुरेणोपमानं / किञ्च-अटव्याः समुद्रस्य पारं 109 // जिगमिषुभिरवश्यं पुरप्राप्तिरभिसन्धीयते / अत्रापि च भवाटव्याः संसारसमुद्रस्य पारगामिन एवागच्छन्तीति पुरेणोपमानं, तन्निवासिनश्च सिद्धा 'इति। किञ्च-आजन्मारण्यवासी म्लेच्छ: अश्वाहरणप्राप्तारण्यवासेन नृपेण तत्कृतस्योपकारस्याऽविस्मरणीयतां चिन्त्यमाने नीतः स्वराजधानीपुरं, स्थापितश्च कियन्तमपि कालं महोपकारितामनुस्मरता बहुविधोपचारपुरस्सरं तस्मिन्नेव पुरे खसमीप एव, कालान्तरेण स्मृत्वा निजं परिवारादिकमागतोऽनुज्ञाप्यारण्य स्वजनानामभ्यर्ण, खजनाश्च चिरेणागतं तं कालमेतावन्तं क्व स्थित इति पृच्छन्त्येव, स चानुभूतं सोपचारं पुरमेव निवेदयति, जातकुतूहलाश्च पौनःपुन्येन तस्यैव पृच्छन्त्येव स्वरूपं, स च नृपकृपापात्रीभूतो म्लेच्छो जाननपि सकलं ययार्थतया पुरस्वरूपं, वाञ्छन्नपि स्वजनानां परमप्रीतिस्थानत्वाद्यथावत्तयोदाहर्तु, तथाविधस्योपमानादिसाधनस्याभावान्नैव शक्नोति स्वजना| नामाप्तानामप्यग्रत उदाहर्तु स्वरूपं नगरस्य / तत्रापि सर्वद्रव्यक्षेत्रकालभावावभासनपटिष्ठेन केवलालोकेनाव| लोक्यापि सिद्धिपुरं सोपचारं सामस्त्येम नैव शक्नोति विधातुं तत्प्रतिपादनं, यतो जगति ये ये व्यवहारगता अर्था उपमानपदमानीयोच्यन्ते ते समस्ता अपि अनात्मीया अतथाभूताश्चेति विदन्नपि केवलज्ञानी न स्वरूपं सिद्धराख्यातुमलं, लोकेऽप्यभिन्न स्वरूपाया अपि सख्याः पुरो न पतिप्रेपरसादीनाख्यातुमपार्यत 21 प्रियया सख्येति सुप्रसिद्धमेव। तद्वदत्राशेषानर्थान् विदन्नपि सामस्त्येन साधनस्य तथाविधस्याभावानोपदर्शयितुं / Hasiaurat Ja KIRames MPAINS B y :