________________ आगमो द्धारककृतिसन्दोहे // 108 // रिणामा लोकानुभावादेव' भवन्ति, यावत् सर्वार्थसिद्धस्थाने सर्वलोकगतजीवापेक्षया प्रकृष्टपुण्यवन्तो जीवा उत्पद्यन्ते, प्रकृष्टतरं च सातवेदनीय क्षेत्रानुभावजातशुभपुद्गलसंयोगादनुभवन्ति, पौद्गलिकत्वात् | पञ्चसूत्र सातवेदनीयकर्मणः, तस्मादप्युपरितने मागे या सिंद्धशिला तत्र तदुपरितने च भागे पुद्गलानां / वार्तिकम् लोकानुभावादेव परमशुभतरत्वे किश्चिदपि चोद्यं न तिष्ठति / यद्यपि सिद्धा भगवन्तः ज्ञानदर्शनसुखवीर्या-12 नन्त्यचतुष्टयीवच्चात् न तेषां ते पुद्गलाः सुखहेतवो भवन्ति, परं समग्रे जगति सर्वोत्तमानुभाववत्पुद्गलस्थानं तदेवोललोकाग्रभागलक्षणं, तेन कर्मकलङ्कमुक्तानां प्रणष्टव्यावाधानां सिद्धानां भगवतां तत्रावस्थानं योग्यमेवेति / जगति च समृद्धतयाऽनाक्रमणीयतया वुद्धिप्रधानपुरुषावासतयां च पुरमेव विशिष्यते प्रामादिभ्यः स्थानेभ्यः, तद्वत् ज्ञानादिचतुष्टयानन्त्यसमृद्धं कर्मरिपुभिरनाक्रमणीयं सनातनज्ञानदर्शनानन्त्योः | | पयोगप्रवृत्तं च समग्रेऽपि संसारे सिद्धिरेवेति सा पुरेणोपमयते / किञ्च-दुस्तरसमुद्रमतरणपटिष्ठैरवाप्य | | समुद्रापरतटं' पुरमेवाप्तुमभिप्रेयते, तद्वदत्रापि संयमपोतेन दुस्तरसंसारसमुद्रं प्रतीर्य साधवः सिदिमवाप्तुमिच्छन्तीति / सिद्धरुपमानं पुरेणेति किञ्च-यथा पुरमुपागता अध्वनीनाः सर्वदस्युप्रभृतिभयविप्र-IN मुक्ता भवन्ति, तथाऽत्रापि सिद्धिमुपेतानामेव जन्मजराव्याध्यामयान्तकादिभयानि सर्वदा नष्टानि इति सिद्धेरुपमितिः पुरेणेति / पुरेषु द्विविधा लोका:-पौरा जानपदाच / तत्र ये पुरमेवाधितिष्ठन्ति स्वाश्रयाः / ते पौराः पुरनिवासिन इति कथ्यन्ते / ये च बहिर्भागात् प्रयोजनं किञ्चदुद्दिश्य पुरमधिश्रितास्ते जानपदा इति कथ्यन्ते / तत्र ये सिद्धा भगवन्तस्ते सिद्धिपुरनिवासिनः, सदैव तत्रावस्थानात्तेषां / ये तु / पृथिव्यादयः स्थावरास्तत्र लोकाग्रभागे सिद्धाश्रयाविभक्तेष्वेवाकाशमदेशेषु सन्ति, ते तत्र न नियमा-2 वस्थानाः, चतुर्दशरज्जुप्रमाणलोके परिभ्रमणशीलत्वात्ततस्तत्र लोकाग्रभागे सिद्धिस्थाने ते जानपदतुल्यत- II il // 10 // . IN P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust