________________ पश्चसूत्र आगमोद्धारककृति वातिकम सन्दोहे 107 // रा | ज्ञानचारित्रैरेव जन्यते, तानि च साधनानि नरलोकादहिर्न सम्भवन्ति, जिनेन्द्रोत्पत्यादीनां नरलोक KI एव तद्धेतूनां भावात, तत्रैव नरलोक एव मुक्तेः साधनं, मुक्ताश्च नरलोके सम्यग्दर्शनादिभिः साधन- KI रूमेव स्वभावाद् गच्छन्तः सिद्धिपर्यवसानगतिका एव भवन्ति / अत एव 'लोयग्गमुवगयाण मिति तस्य / गंतण सिजईत्यादि चोच्यते / ननु जीवा ऊर्ध्वगमनस्वभावा एव मक्ताश्च कर्मप्रेरणारहिताः / स्वस्वभावेनैवोर्चगच्छन्ति चेत् , सिद्धशिलायां लोकाग्रे वा कथमवस्थिता भवेयुः 1 किं न परतोऽपि स्वभावाद् गच्छेयुरूप्रमिति चेत् / सत्यं, परं जीवानां पुद्गलानां च गतिपरिणतानामपि गतिपरिणामापन्नानामपि मत्स्यांनां गतौ जलमिव धर्मास्तिकाय एवावष्टम्कः / स च न लोकाग्रात् परत इति सिद्धानां | लोकाग्र एव स्थानम् / ननु धर्मास्तिकायस्य सत्त्वमेव कथं बोद्धव्यमिति चेत् / सत्यं, पारमर्षप्रवचनवचनात् तच्छ्रद्धातुमर्ह / किञ्च-यदि न स्यात्ताहंगद्रव्यं जीवपुद्गलानां गर्तेर्नियामकै अलोकस्यापरिमितत्वात् सर्वे जीवाः पुद्गलपरमाणवश्च तथा तथानियामकाभावाद् गच्छेयुर्यथा जीवानामजीवानां दृश्यमाना अनुभूयमाना आवश्यकाश्च संयोगा एव न स्युः / दृश्यन्ते उपलभ्यन्ते उपपद्यन्ते च ते संयोगा इति लोके तेषां गतेनियामकतयाऽवश्यमभ्युपेय एव धर्मास्तिकायः, तदभ्युपगमे परतस्तदभावादेव न सिद्धानां गतिरिति योग्यमेव सिद्धानां भगवतां लोकाग्रे सिद्धिपुरेऽवस्थानमिति / किञ्च-चतदर्शरज्ज्वात्मकोऽयं | लोको यत् त्रिधाऽधस्तिर्यजुर्व्वलोकभेदेन तिष्ठति / तत्र लोकानुभावादेवाधोलोके पुद्गलानामशुभतर | एवानुभावो, यद्वशान्नरकक्षेत्राणामशुमतरत्वात्तीव्रतीव्रतरतीव्रतमवेदनानां भवत्युद्भवः। तिर्यग्लोके मध्यमानुभावो लोकानुभावादेव पुद्गलानां विद्यते, तत च तिर्यग्मनुष्यास्तत्र वर्तमानाः | niosir मध्यमरीतिजानि सुखानि वेदयन्ति / तद्वदेव चोर्ध्वलोके ये वर्तन्ते पुद्गलास्ते शुभशुभतरशुभतमादिप Ac.Gunratnasuri M.S. Jun Gun Aaradhak Trust