________________ पञ्चसूत्र // 103 // __ आगमो- ISI पदार्थानवगन्तुं शक्नुवन्ति ते मनसः पर्यायाणामवगमनान्मनःपर्यायज्ञानिन उच्यन्ते / तादृशं ज्ञानं च | द्धारककृति-] मनःपर्यायसङ्ख्या कथ्यते, लोकानुभावाच्च व्याघ्रानां पक्षाविव नेदं प्रतिपदं व्यवहारविपर्यासकारण- II वार्तिकम् सन्दोहे परायणं / वधाद्यासक्तानां, न च शब्दादिविषयादिप्रमादपरायणानां योगिनामपि जायते / तदेतानि चत्वारि / ज्ञानानि देशज्ञापकानि आत्मस्वरूपापेक्षमसर्वविषयाणीति मत्यादिभिर्विशेषणैर्व्यवच्छिद्य प्रज्ञाप्यन्ते / / तथा च ज्ञानशब्द आत्मनः स्वभावस्थज्ञानदर्शकः, एवं चात्मन एकोपयोगस्वभावत्वादेषां चतुर्णामप्येक| मेवैकदा ज्ञानमुपयुज्यते / मत्यादिष्वपि भिन्नजातीयं ज्ञानं समयभेदेनैव भवति / मनस्तु यावदात्मव्यापीति ! | नाणु, न चैकेन्द्रियविषयगतानेकज्ञानोत्पादमवरोद्धं शक्तं, किन्त्वात्मन एकोपयोगस्वभावत्वमेवेति / सर्वोत्तम- | मन्त्यं च पञ्चमं केवलज्ञानं / तत्र केवलेति न मत्यादिचतुष्कवज्ज्ञानांशद्योतनाय व्यवच्छेदकं विशेषण, | सम्पूर्णस्यात्मज्ञानस्यैव ग्रहात् / तथा च केवलेन युतानेवाश्रित्य नियन्तुं शक्यं 'यन्मानाधीना मेयसिद्धिः', IA यतस्तेन केवलेन सर्वद्रव्यक्षेत्रकालभावा ज्ञायन्ते, तेन केवलेन येर्थाः सिध्यन्ति ज्ञायन्त इत्यर्थः, तेषामेव विद्वत्परिषदि सिद्धिः, तदन्यस्यार्थस्याभावोऽपि तादृशं सर्व विषयं ज्ञानमेवाश्रित्य स्यात्ततो वक्तुं शक्यं तादृशज्ञानवतैव यदुत-यत्र न मानं प्रवर्तते न तदस्तीति / तथा च मानाधीना मेयसिद्धिः, नाप्रमाणस्य | मेयतेति नियमद्वयमपि केवलवन्तमेवाश्रित्य भवेद्योग्यः। तथा च यावज्ज्ञेयव्यापित्वात्केवलं, जाते चास्मिन् नान्यत् ज्ञानं, सम्पूर्णत्वादेवास्य, न च तज्ज्ञानज्ञेयव्यतिरिक्तं च किञ्चिदन्यद्वस्तु, ततः / स्वरूपेण विषयेणाप्रतिपक्षवत्त्वात्केवलेति विशेषणेन विशेषितं / किञ्च-परेषु मत्यादिषु जातेष्वपि न निश्शेषाणि ! वस्तूनि तत्तज्ज्ञानेन ज्ञायन्ते, नियतविषयत्वात्तेषां / न च यानि वस्तूनि तेन तेन ज्ञायन्ते तान्यपि II यावत्स्वपर्यायविशिष्टानि, यतः सर्वान् पर्यायानेकस्यापि वस्तुनः सर्वज्ञ एव वेत्तुमलं, जैनदृष्टया ISI Jun Gun Aaradhak Trust // 103|| R EP.AC. Gunratnasuri M.S. -