________________ E -m e - .--.. स्वव्यतिरिक्तान्यसर्वपदार्थव्यावृत्तिरूपधर्मोपेतत्वात् / य एव पटे पटस्वभावः स पटेतराभावरूपोऽपीति KI आगमो- यावत्परवस्तुज्ञानाभावे एकपदार्थगतानां व्यावृत्तिधर्माणां ज्ञानाभावात् , स्वरूपेण ज्ञातस्यैव व्यावृत्तिरूपेण | पञ्चसूत्रद्धारककृतिज्ञानात् / तथा च सर्वेऽर्था अनुवृत्तिव्यावृत्तिस्वरूपवत्तामपेक्ष्य सर्वात्मका इति / परदर्शनदृष्टयाऽपि वार्तिकम् सर्वेऽर्थाः सर्वतदितरपदार्थान्योन्याभावाश्रयाः, अन्योऽन्याभावनियामकं च तत्पदार्थस्वरूपमेवेति, तत्वतः / सन्दोहे सवपदार्थज्ञाने तदितरेतराभावज्ञान ते चाभावा वस्तुरूपेणावच्छिन्ना इत्यवच्छेदकस्वभावज्ञानद्वारापि // 10 // सकलपदार्थज्ञानाविनाभाव्येवैकस्याप्यर्थस्य यावत्स्वरूपयुतं ज्ञानमिति / एवं च व्यवच्छेदकत्वाभावाद साधारणं, न मत्यादिवद् व्यवच्छेयं / सर्वपर्यायोपेतसर्ववस्तुज्ञापकत्वाच सम्पूर्ण, तदज्ञातस्य कस्याप्यर्थस्याभावोऽतः / मत्यादीनि ज्ञानानि न सर्वविषयाणीति स्वाज्ञातवस्तुज्ञापनसापेक्षाणि, इदं तु निरवशेषपर्याययुतसमस्तवस्तुज्ञापकमिति नैतद्वतोऽन्यज्ञानापेक्षा। तथा च सर्वथा सर्वदा यदेकमसाधारणं सम्पूर्ण | ज्ञानं तत् पूर्वेभ्यो ज्ञानांशरूपज्ञानेभ्यः विशिष्य केवलेन विशिष्टं ज्ञानं केवलज्ञानमित्युच्यते / तच्च यद्यपि क्षपकश्रेणिप्रभावेण मनुष्या उत्पादयितुं शक्ताः, परं मनुष्यत्वस्य शाश्वतत्वाभावात् केवलिनश्च जन्मान्तराभावात् सिद्धदशायामेव तस्यावस्थानमिति केवलज्ञानधराः सिद्धा इत्युक्तमिति / यथैव भगवन्तः सिद्धाः स्वरूपत्वाद्धारकाः केवलज्ञानस्य तथैव केवलदर्शनमपि तथारूपमेवेति / तस्यापि धारकास्ते इत्युक्तं केवलज्ञानदर्शनधरा इति / अत्रेदमवधेयं यदुत-जगति ये केचित्पदार्थास्ते द्विस्वभावा एव, सर्वेषां पदा र्थानां यतः स्वरूपवत्ता, ततः स्वरूपमेव सामान्यं तद्वांश्च विशेषः एवं 'व्यक्तेरभेद' इत्यादिना यो स सा॥१०४॥ जातिबाधकः समदायः परपदार्थक्रोडीकरणपरजातिनिरूपक इति न तेन बाधः, एकव्यक्तिकस्यापि खस्वरूपवत्त्वेनैव युक्तत्वादिति / अत्र च चक्षुरादीनि दर्शनानि पदार्थान् तत्स्वरूपं सहगतान पृथक् पृथINIPP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Truse Var.के. सा.., कोषा