________________ ___ आगमो. चेदात्मनि समवायेत, : आकाशकालादावप्यमूर्तेषु समवायेत, तच्च विष्वपि कालेषु ' 'जायते, II नच मतमपि अजान्यात्मवादिनां परतीर्थीयानां वैशेषिकादीनामिति / अन्यच्च कर्मणां कलकत्वकथनेनैतदपि lil पञ्चसूत्रद्वारककृति | सष्टितमेव, यदुन-भवितुकामानां जीवानां नान्यत् किमपि शोधनीयं, कर्माण्येव च कलङ्करूपाणीति | वार्तिकम् सन्दोहे A तान्येव शोधनप्रयत्नविषयाणि / अत एव च जनानां शासने कर्मणामेव निर्विशेषतया शत्रुसंज्ञा / / // 99 // तत एव च भगवतामर्हतां निरुक्ते 'अरिहंताणमित्यत्र निर्विशेषणेनारिशब्देन कर्माण्युच्यन्ते, उच्यते च-'अट्टविहं जं कम्मं अरिभूयं होइ. सव्वजीवाण' मिति नियुक्तिकारैरप्यष्टविधस्य कर्मण एवारिभूतत्वमिति / अपेतशब्देन सर्वथा कर्मकलङ्कराहित्यदर्शनात् बन्धोदयसत्ताव्यवच्छेदः सिद्धानां IN ज्ञातव्यः। ततश्च यद्यपि सर्वेऽपि संसारिणामनुसमयमष्टविधानां कर्मणामुदयात् प्रतिसमयमेव 'विपाकोऽनुभवः ततश्च निर्जरेति मुच्यन्त एवैभिः कर्मभिरष्टाभिरपि, परं न कोऽपि संसारी कर्मसत्त्ववर्जितः, किन्तु तद्वन्त एव संसारिणः। अत एव 'संसारसमापन्नाः असंसारसमापन्ना' इत्यागमेषु सिद्धसंसारिभेदौ निदर्शितौ, सर्वथा | कर्मसत्त्वविनिर्मुक्ताः सिद्धा एव, नान्ये केचिदिति सुष्टुक्त अपेतकर्मकलङ्का' इति। ईदृशाः सिद्धाः शरणमिति प्रक्रमान्ते योजनं, न च वाच्यं कर्मणां कलङ्केनौपम्यंमसङ्गतं, यतः कर्मणां सनिदानत्वात् कर्तृकत्वाच्चात्मना न सहभावित्वं, मृगरूपस्य कलङ्कस्य सदा चन्द्रमसि भाव इति वैषम्यादिति / यतः प्राक तावत अ.त्मभिः पर कर्मणां लोलीभाव एव बन्धः, वन्ययस्पिण्डवल्लोलीभावाच्च कथञ्चित्तद्रूपताऽङ्गीक्रियते / किञ्च-कलङ्कस्य सर्वथाऽपगमे कथञ्चित्तदभिन्नत्वेऽपि न कलकिनोऽपगमः, तद्वदात्मभ्योऽपृथग्भूतानामपि कर्मणां सर्वथाऽपगमे नात्मनोऽपगमः, किन्तु कलङ्कापगमे कलंकिवस्तुवदतिशयितस्वाभाविकनैर्मल्यवानेवात्मेति / ज्ञानावरणीयादिकर्मकलङ्कस्यानभ्युपगमे आत्मनां स्वभावः सर्वेषां 'सर्वज्ञत्वस्यासुमतामभावात् सर्वज्ञत्वं न स्यात् , स्कल्सयस Ac.GunratnasuriM.S. Jun Gun Aaradhak Trust