________________ निरुध्येते इति सम्यग्दृशो भीता जन्मगर्भवसतेः, परमत्र लौकिकानुवृत्त्या क्षीणजरामरणत्वमेव सिद्धानां आगमो. वा स्तुतमिति / 'जातस्य हि ध्रुवो मृत्यु'रित्यविसंवादि वचनं, 'मृतस्य जननं ध्रुव'मिति संसारिणमाश्रित्य / पञ्चसूत्रः द्वारककृतिततश्चावश्यकमेव जरामरणाभ्यामुद्वेगवद्भिर्जन्मनस्तन्मूलरूपाया गर्भवसतेश्चोद्विजितव्यं, जरामरणयोरभावस्य वार्तिकम् जन्मगर्भवसत्यभाव एव भावाद् / एवं सत्यप्यत्र पूर्वोक्तहेतोर्जरामरणयोः क्षीणत्वं सिद्धानामाद्यगुणतया सन्दोहे प्रतिपादितं / आगमेष्वपि औदारिकादीनां सर्वविप्रहाणं मोक्षकाल एव प्रोच्यते / भगवान् // 28 // श्रीहरिभद्रसूरिस्तु-'आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते' इत्युक्त्वाऽन्त्यमरणमेव मोक्षतयोक्तत्वाद मरणविभक्तिप्रकरणेऽपि केवलिनां मरणं पृथगेवोच्यते / एवं च तथाप्रकारमरणकरणेनान्यमरणनिवृत्तिरेव मोक्षतया पर्यवस्यतीति / तद्राहित्यमपि सिद्धानामुच्यमानं नासङ्गततरं / ' एवं ' या सिद्धानां | जरामरणराहित्यं तन्न स्वतन्त्रतया कल्पनाशिल्पितं वा, किन्तु तत्कारणाभावस्य सम्पादनेनैव। न ! हि सनिदानस्य निदानस्यानुच्छेदे कदापि निदानिनो व्युच्छेदः सम्भवति, निदानत्वस्यैव व्याघातात् / / | जरामरणानि. जन्म च सनिदानान्येव, 'अज्ञानपांशुपिहितं पुरातनं कर्मवीजमविनाशि / तृष्णाजलाभिषिक्तं / मुञ्चति जन्माङ्करं जन्तोः // 1 // ' इत्यादिवचनात् / तस्माद्भगवतां सिद्धानामपि जरामरणोच्छेदस्य IM वास्तवताप्रदर्शनार्थमाहु :-'अपेतकर्मकलङ्काः' इति, अत्र च कर्मणां कलङ्कत्वकथनेनात्मनश्चन्द्रत्वं ज्ञाप्यते / उच्यते च-स्थितः शीतांशुवजीवः, स्वभावेन सुनिर्मलः। चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद्' // 1 // इति / ततश्च यथा चन्द्रमाः स्वयं तेजोरूपो, न त्वन्यतेजसामाधारः, तद्वदात्मापि स्वयं ज्ञानस्वरूपो, नतु ज्ञानादीनामधिकरणं / नहि सुवर्णे कषो यथाऽन्यत आगतः, किन्तु ID स्वभावसिद्धः तद्रूपमेव च सुवर्ण, तथानाप्यात्मा ज्ञानमयः ज्ञानरूप एवात्मा। पृथगुत्पद्य ज्ञानं TIPP. Ac. Gunratnasyri M.S. Jun Gun Aaradhak Trus II