________________ .. आगमो- KI पूर्व कार्य स्याद् / अर्हन्त एव च सिद्धभावस्य कारणमित्यपि प्रागेवाहतां शरणे स्वीकारो न्याय्य इति / पञ्चसूत्रद्धारककृति अत्र भगवंतां सिद्धानां प्रागेव जन्मजरामरणकारणीभूतानां कर्मणां विच्छेदो जायते इति तमेव गुण- KI वार्तिकम मादावाहुः / आर्षेऽपि 'छिन्नजाइजरामरणबन्धणे'त्ति पठ्यते। किञ्च-त एव सिद्धशब्दवाच्याः स्युर्ये .. सन्दोहे जातिजरामरणानि तनिबन्धनकर्मवल्लीनिर्मूलनद्वारा छिन्येयुः, अन्येषां जन्माङ्कुगदिसद्भावे शरीरादीनां // 17 // तद्वारैव तज्जन्यानां दुःखानां चावश्यम्भावेन कृतकृत्यत्वाभावात् सिद्धत्वाभावादिति / नैयायिकानां यथा वीतरागाणां जन्मादर्शनं, तथाऽत्रा. प्रवचने वीतरागत्वे वास्तां, अप्रमत्तदशायामपि न प्रेत्यजन्मकारणस्यायुषो बन्धः, न चायुष उदयाभावे कासाश्चिदपि गत्यादिप्रकृतीनामुदय इति। सिद्धत्वस्याचं कारणं जन्मान्तरीयस्यायुषो बन्धस्याभाव इति / 'जन्माभावे च जरामरणयोस्त्वभावः स्वभावसिद्ध एव, प्रतिपादनं तु जरामरणयोरभावस्याबालगोपालाङ्गनं ताभ्यां भयातिरेकस्य स्वभावसिद्धत्वात् / अनेनैः तदपि ज्ञाप्यते, यदुत-सिद्धानां निराबाधज्ञानदर्शनसुखवीर्यानन्त्यरूपचतुष्टयपूर्णत्वेन नित्यानन्दमयत्वात्तदवस्थायाः परमाश्रयणीयत्वेऽपि आबालगोपाङ्गन सिद्धं जरामरणोद्भवं सर्वास्तिकनास्तिकस्वीकार्य, जन्मभयं च सिद्धावस्थायां सत्यां न भवतीत्यविवांदे व सर्वैरपि जन्मजरामरणभीतरवश्यमेष्टव्यं सिद्धत्वमिति / जिना अपि 'जन्मजरामरणार्तमशरणं जगदभिसमीक्ष्य निस्सार मितिवचनेन सार्वजनीनं जन्मजरामरणोद्धारमभ्यध्यासिषुरिति / यद्यपि भयत्रयीहीनत्वं भंगवतां सिद्धानां तथापि भाविनो जन्मनो लौकिकप्रत्यक्षाविषयत्वान्न तथा भयकारिता, यथा लौकिकप्रत्यक्षगम्याभ्यां जरामरणाभ्यामिति ग्रहणमनयोरेव / वस्तुतस्तु जन्मन्यरुद्ध न केनापि रोद्धं शक्यं परतीर्थीयानां परमेश्वरपदाधिरूढानामपि मरणं जातमेव शरण- // 17 // मन्त्ये इति / एवं सकलं जगत् जरामरणाभ्यां विमेति, परं तैश्च शक्यरोधे एव जन्मरोधे एव ते Gunratnasuri M.S Jun Gun Aaradhak Trust