________________ Di मोक्षेण युतां सप्ततत्त्वीमुपदिशन्त एव भवाब्धितारकभावमभ्युपयन्ति, त एव च भवाब्धौ बेडमानाना- 10 पञ्चसूत्रआगमो लता मसुमतामेकान्तेन शरण्या भवितुमर्हन्ति / अत एव परेषां नोदनावचनवज्जैनानां जिनेन्द्रोपदेश एवेष्टप्राप्त्य- ID वार्तिकम् द्धारककृतिमा निष्टनिवारणप्रत्यलः। नयास्तिकानां विहाय श्रीजिनेन्द्रोपदेशं इष्टप्राप्त्यादिसाधनज्ञानं सम्मतं, आस्तिसन्दोहे काश्चात्र जीवे कथञ्चिदस्तित्व नित्यत्वकर्मकर्तृवतद्भोक्तृत्वमोक्षतदुपायसवानां श्रद्धानं, न तु परलोकयायिता॥१५॥ मात्रस्वीकाररूपं, एवं सुदृढमिदमेव मनीषिणां मननीयतरं यदुत-भगवन्तोऽर्हन्त एव भवजलधावेकान्तशरण्याः, नान्यः कश्चिदप्यन्यतीर्थीय इति, इत्थम्भूताः परमत्रिलोकनाथत्वादिगुणयुक्ता अर्हन्त एव, अर्हन्तो भगवन्तश्चेत्थम्भूतगुणयुक्ता एवेत्युभयथाऽवधारणाय रूढस्य भगवत्पदस्याहत्पदस्य चान्तरा | विशेषणानां समुदाय इति / एवं च सिद्धादिष्वपि मध्ये विशेषणन्यासे हेतुरवधारणीय इति / अस्त्वितिक्रियाऽध्याहारात् शरणं सन्तु पूर्वोक्तस्वरूपा अर्हन्त इति / शरणग्रहणेन च भयङ्करभवावर्तात् त्रस्तोऽहं, न च तस्मात् त्राणकारी जगत्यपि विद्यते इति निश्चयवानहं, भगवन्तोऽर्हन्तश्चावश्यमेव तादृशाद्भवावर्त्तात् त्राणकर्तारः सन्ति इति निश्चयवांचाहं भगवतामर्हतामनन्यभक्तो भवामीति प्रतिजानीते / शरणग्रहात् प्रागेवान्यत्र मङ्गललोकोत्तमत्वयोरध्यवसायस्य * दर्शनादिहापि तदाशयानुवेधेनैव शरणव्याख्यानस्यानुचितत्वात् / वस्तुतस्तु भगवन्तोऽर्हन्तः सर्वजगत एव शरणं, परं यो यः पूर्वोक्तरीत्या शरणं गन्ता, स स शरणफलं लभत इति शरणग्रहणस्य तत्वमिति / यथा सेधितुकामेन भगवन्तोऽर्हन्तः | शरणीकर्तव्यास्तथा भगवन्तः सिद्धा अपीति दर्शयितुं सिद्धशरणमभिधातुमाहुः-तथेति / यथा हि भग| वन्तोऽहून्तः सिद्धेर्मार्गस्य प्रदर्शकत्वेन शरण्याः। शरणं च तेषामायातस्तथैवेति-अन्यूनातिरिक्तभावेनैव सिद्धा अपि शरण्या एव, शरणं च तेषां प्रपन्नोऽस्मीति / किञ्च-तथेत्यव्ययेनैतदपि सूच्यते यदुत-न 95 // IKP Ac. Gunratnasuri M.S. Jun-Gun Aaradhak Trust