________________ वार्तिकम् सन्दोहे आगमो- 8 न त्राणं विधातुं समर्था भवन्ति, तत आहुः-'अचिन्त्यचिन्तामणय' इति / यद्वा जगति त एव विधातु- पञ्चसूत्रद्वारकतिil मलं दुःखभराक्रान्तानां त्राणं; ये शरणागतेषु प्रीतमनसः सन्तस्तान् शरणमुपेतानपेक्ष्य स्वस्य वज्रपञ्जर- 17 TH ताभिमानमुद्बहेयुः, शरणागतानां प्राणिनां बाधकेषु परेषु च जीवेष्वजीवेषु वा समूलकाषं कषणावधिक रोषमादधते, शरणागतानां त्राणसाधनेषु विरोधिनां क्षयकारकेषु साधनेषु स्वेषां नियतैकस्थितिकारकेषु / // 9 // कारणसमूहेषु दृढबद्धान्तःकरणास्तद्रक्षणैकचित्ताश्च स्युः, भगवन्तोऽर्हन्तस्तु क्षीणरागद्वेषमोहा इति कथं शरणे साधवः स्युरित्याहुः-'अचिन्त्यचिन्तामणय' इति, यथाहि चिन्तामण्यादय आराधकविराधकेष्वरक्तद्विष्टाः सन्तः आराधकानामिष्टसिद्धयादिनेष्टार्थसाधकत्वं विराधकानां च दारियापत्त्यादिनाऽनिष्टापादनद्वाराऽनि टोत्पादका भवन्ति, तथा भगवन्तोऽहन्तः क्षीणरागद्वेषमोहा अपि तद्गुणज्ञानबहुमानादरादिनाऽऽराधकानामाIN नन्तर्येण प्राप्यत्वाभिमतमभ्युदयं पारम्पर्येण साध्यत्वेन बहमानितं निःश्रेयसं सम्पादयन्ति. तदाज्ञाऽन ङ्गीकाराश्रवप्रवृत्यादिभिर्विराधकानां चानन्तसंसारवृद्धिदुर्लभबोधित्वादिनानिष्टभरं सम्पादयन्ति / नन्वेव | महार्थकरत्वेऽपि महानर्थकारित्वमपि भगवतामर्हतामापन्नमिति वैतालवदःसाधास्ते, न चैकान्तेन शरण्या इति | | चेदाहुः-'भवजलधिपोता' इति / चतुर्गतिमयभयङ्करभवावर्तभीषणभवोदधितारणे भव्यानामसाधारणपोता| यमानाः जिनवरा हि जिननामकर्मोदयादेव भवन्ति, जिनाभिधानकर्मबन्धश्च वरबोधिमतामेव, वरबोधिश्च | तस्यैव स्याद्यो लब्ध्वा सम्यक्त्वं किमेतादृशे भवजलधितारणसमर्थे सति जिनशासने जीवा भवोदधेः परपारं नाप्नुवन्ति ?, तदमून् सर्वान् भवजलधेः परम्पारमनेन नैर्ग्रन्थशासनेन नयामीति विचारयति, | ततः प्रभृति स वरबोधिमान सर्वथा सर्वदा परार्थोद्यत एव भवति, परार्थोद्यतत्वादेव च जिननामकर्म निका- I // 13 // चयन अनन्तं संसारमपवर्तयन् भवं तृतीयमवष्वष्क्यापवर्त्तयति / शास्त्रकारा अपि 'तइयभवोसक्कइत्ताणमित्याहुः।। APP.AC. Gunratnasuri M.S.. Jun Gun Aaradhak Trust