________________ 276 [ संस्कृत-प्रवेशिका [ षड्-ऋतवः त्रीणि राष्ट्रियपवाणि] परिशिष्ट : 9 : निबन्ध-संग्रह [277 पिङ्गलाभामः इन्द्रगोपकाः संचरन्ति / जलाशयेषु मण्डका: टरटरायन्ते / विद्यत युवतिचित्तमिव क्षणं स्फुरति / उन्मदाः मयूरा: मेघगर्जनं धुत्या इतस्ततः नृत्यन्ति / मेघाच्छन्ने गभसि बलाकाः उड्डीयन्ते। सुरेन्द्र पापोऽपि यदा कदा उदेति / यत्र तत्र दोलाविलासः संदृश्यते / वृक्षषु चातका. 'पीकहाँ' (क्वास्ति प्रियः; प्रियो मेधः ) इति मेषजलार्थ रटन्ति / इत्थं सर्वत्र संगीतोत्सवः इव प्रचलति / कि बहुना, सर्वत्र रम्पाणि दृश्यानि चेतांसि हरन्ति / वृष्ट्या अनेकहानयः अपि भवन्ति / यथा-प्रभूतवर्षणेन गंगादय: नमः आप्लवेन भीषणं दृश्यम् उपस्थापयन्ति / प्रायः सर्वे मार्गाः पहिलाः अवरुद्धाश्च भवन्ति / महती धन-धान्यहानिः भवति / जनाः पशवश्च नियन्ते / मृण्मया: गृहाः धराशायिनः जायन्ते / अनेके हानिकारकाः कीटादयः उत्पद्यन्ते / जठराग्निः पाचन क्रियायां निष्क्रिया इव भवति / इत्थं वृष्ट्या यद्यपि अनेकहानयाः भवन्ति तथापि अयम् ऋतुः प्राणिनां जीवनाय अमृतोपमो यतः नानाविधानि शस्यानि उद्भवन्ति / प्राचीनसाहित्ये वैदिकैः ऋषिभिरपि अस्याः महत्वम् उद्घोषितम् / 4. शरद्-अयम् ऋतु: वर्षानन्तरं धन काल मुग्रं गाढतमस उत्थाय आश्विनकार्तिकमासयोः आगच्छति / शरद् गुलपयोधरश्रीः शुद्धाम्बरा मयोढेव शोभते / शुद्धाम्बरे नवनीतनिभः चन्द्रः, तक्रसमा ज्योत्स्ना, क्षीरनीकाशा आशाः (विशः) विलसन्ति / पृथिवी अपडूताम्, नद्यः स्वच्छताम, पास्यानि परिणामरम्यता चौपयान्ति / हंसाः मानसरोवराद् आगत्य मयूरध्वनि परुषीकृश्य च मधुरं निस्वनन्ति / परिमलवाहिनः सप्तच्छद-कल्हारवाताः मन्थरं वान्ति / विमलकुमुदावदाता: तारकादयः विद्योतन्ते। ऊष्मा अधिकतरं बाधते / किंबहुना, शारदीयाः वासराः केषां चेतांसि न समाकर्षन्ति / घननिर्मुक्ततया अतिशुभैः चन्द्रिकिरण नक्षत्र-ग्रहै: क्रौञ्च-हंस-सप्तच्छद-कुमुदपुण्डरीक-काशकुसुमपरागैश्च दिङमण्डल धवलितं भवति / जलाशयानां जलं निर्मलं मधुरं च भवति / 5. हेमन्त:-अयम् ऋतुः शरदनन्तरं मार्गशीर्ष ( भाग्रहायण ) पौषमासयो: मन्यते / अस्मिन् श्राती रजनी क्रमशः वर्धते / दिवसश्च कृशता याति / सर्वत्र शीतः वायुः प्रसरति येन सर्वे प्राणिन: शीतज्वरातराः इव पेन्ते तथा शीतेन कम्पमानाः जनाः सद्यः कूर्मवत् स्वानि अङ्गानि निजे शरीरे एवं उपसंहां काङ्क्षन्ति / अस्मिन् ऋतौ पाचन क्रिया समीचीना भवति येन स्वास्थ्यलाभोऽपि जायते / 6. शिशिर:-अयम् ऋतुः हेमन्तानन्तरं सामान्येन भाष-फाल्गुनमासयोः मन्यते। इदानीं शैत्यं तत्सहचरीव रात्रिरपि पूर्ण वर्धते / शीताव भीताः इव दिवसाः संकुचन्ति, रविश्च मन्दकरो भवति / वलिः प्रियः भवति जलं ... पानिष्टम् / बलवन्तोऽपि जनाः शिशिरात् कम्पन्ते / तुषारः निपतति / जनाः नितराम् अङ्गार सेवन्ते उष्ण वस्त्रं च धारयन्ति / गृहस्य द्वाराणि प्रायः पिहितानि भवन्ति / सूर्य अस्तंगते, निःस्वकुटुम्बः पङ्कजलीला समुदतहत / जठराग्निः अतिप्रदीप्तो भवति / जनाः दूतं कार्याणि समाप्य अचिरं स्वगृहाय पायाः इव घावन्ति / अतएव अयम् ऋतु: 'शिशिर' इति कथ्यते / निर्धनाः, दुर्बलाः, पशवश्य शीतादिताः नियन्ते तथापि अयमपि ऋतुः स्वास्थ्यदृष्टया बहुलाभप्रदः / किंबहुना, प्राणिनां कृते ऋतबः प्रकृति प्रदत्तमेकम् अपूर्व वरदानम् इति बोध्यम् / (29-31) त्रीणि राष्ट्रियपर्वाणि राष्ट्रस्यैतिहासिकघटनासूचकानि कानिचन राष्ट्यिपर्वाणि भवन्ति / भारतवर्षेऽपि एवंविधानि पीणि पर्वाणि प्रचलन्ति-१. स्वतन्त्रता दिवसः, 2. गणतन्त्रदिवसः, 3. गान्धिजयन्तिश्च / एतानि इतिहासस्य प्रोज्ज्वलरत्नानि / एतानि प्रतिवर्ष महता उस्माहेन, हर्षेण समारोहेण च समस्तदेशे समायोज्यन्ते / एतानि अस्माकं राजनीती जीवनधारायां च नवीनप्रेरणा: नबोल्लासान् च वितम्वन्ति / साम्प्रतं सर्वे भारतीयाः देशनेतृणां महापुरुषाणां तुमुलजयध्वनिमुच्चारयन्तः तत्प्रदर्शितमार्ग परिशीलयन्तः ध्वजोत्तोलनं देश रक्षार्थ प्रतिशादिकं च कुर्वन्ति / अत्र तेषां त्रयाणां क्रमेण दिग्दर्शनं क्रियते 1. स्वतन्त्रतादिवसोत्सवः-१९४७ ईसवीयस्य अगस्तमासस्य पञ्चदयातारिकायो (निशीथे चतुर्दशतारिकाविगमे पञ्चदशतारिकाप्रारम्भे) चिरकालात् पराधीना: भारतवासिनः आङ्गलशासकानां शासनपाशात् मुक्ताः / चतुर्दशतारिकायां राको स्वतन्त्रतालाभाय समुत्सुकैः नागरिकैः प्रातरुत्याय अग्रिमदिवसायोजनस्य विपूलानि साधननि एकत्रीकृतानि / स्वतन्त्रताप्राप्तिकाले ( द्वादशवादने / तुमुलशंखध्वनिभिः विविधवाद्यैश्च मांगलिकसमारोहः समपद्यत / 'जय भारतमाता', 'वन्दे मातरम्, 'जय महात्मागान्धिः' प्रभृतिभिः घोषः गगममण्डले व्याप्तमभवत् / प्रातः यत्र तत्र सर्वत्र प्रभात प्रदर्शनानि (प्रभातफेरी), राष्ट्रियध्वजोत्तोलनानि, देशापितजीवनेम्पः पुण्यश्लोकेभ्यः (पाहीद) श्रद्धाञ्जलिप्रदानानि, 'जनगणमन' इति राष्ट्रियगीतप्रसारणानि, मिष्टान्न वितरणानि, देशभक्ताना भाषणानि प आयोजितानि / सज्जीकृतद्वाराणां गान्धिद्वार-राजेन्द्रद्वार-अमाहवारसुभाषद्वार-भारतमाताद्वारप्रभृतीनि नामानि लिखितानि अधुण्यन्त / सायं पाये जनिकसभासु प्रमुखनायकैः भाषणानि विहितानि / यम तम गम का, आम्रपल्लवानां मालावत् तोरणद्वाराणि नानासनिgurial, HINNEL