________________ हिन्दी में अनुवाद ] परिशिष्ट : 8: अभ्यास-संग्रह [263 262] संकुल-प्रवेशिका [ हिन्दी में अनुवाद परिशिष्ट : 8 : अनुवादार्थ अभ्यास-संग्रह (क ) हिन्दी में अनुवाद कीजिये-- (1) उत्तमः छात्रः सर्वेषु छात्रेषु प्रथमः भवति / प्रकृत्या साधु-स्वभावः सः नेत्राभ्यां हीनान्, धोत्रेण बधिरान, पादेन खान वा बालकान् दृष्ट्वा न हसति नाक्षिपति च / सः गर्वण युक्तो न भवति / सदा तस्य शास्त्रेषु व्यसनम्, यशति च अभिरुचिः भवति / घनेन हीनोऽपि सः परेषां धनाय वस्तुभ्यो वा न स्पृहपति / ऋणग्रहणं तस्मै न रोचते / अतएव सः कस्मैचित् किमपि न धारयति / मित्रेभ्यः सः कदापि न कुष्पति, नैव द्रुह्यति, नापि ईष्यति, असूयति वा / सः कश्चन बालक तृणाय न मन्यते / सः आतुरेभ्यः दानं ददाति / 'द्रोहः कष्टाय कल्पते, परोपकारः पुण्याय' इति सः सम्यग् विजानाति / एषां गुणानां हेतोः गुरवः तस्मिन् स्निह्यन्ति / (2) ससे कृष्णवल्लभ ! पश्यसि इदम् आश्रमस्थानम् / इयं रमणीया तरुपङ्क्तिरुल्लसति / मनोरमा लता तुझेरावेष्टिता विलसन्ति / एतानि कुसुमानि प्रस्फुटितानि, येषु मधुलोलुपा मधुकरा गुजन्ति / अग्रतस्ताबद् अवलोकयावः / एते परिभ्रमन्ति ब्रह्मचारिणः, नाहरन्ति चैते कुशान पुष्पाणि समिधाश्च / एते हि परिपरन्ति आचार्यान् / माचरन्ति सदाचारान्, न तू स्वेच्छाचारान् / त्यजन्ति अविनयं, न तु विनयम् / परिहरन्ति हिंसा, न तु दयात् / वदन्ति सत्वं न तु. अनुतम् / एते केचिद् ब्रह्मचारिणो वेदान् पठन्ति, के चिच्च अन्यानि शास्त्राणि / (3) कश्चित् शृगालः स्वेच्छया नगरस्य समीपे भ्राम्यन् कस्यचिद् रजकस्य गृहं प्राविशत् / तत्र स नीलीभाण्डे अपतत्, येन तस्य वर्णो नीयोऽभवत् / ततो वनं गत्वा शृगालान् आहूय तेनोक्तम् --अहं भगवत्या वनदेवतया स्वहस्तेन बरण्यस्व राज्ये अभिषिक्तः / अस्मिन् अरण्ये मम आशया व्यवहारः कार्यः। शूगोला: तं विशिष्टवर्णम् अवलोक्य प्रणम्य अवदत्-यथा भाज्ञापयति देव ! एवं क्रमेण सर्वेषु पशुष तस्य स्वामित्वम् अभवत् / ततः व्याघ्रसिंहादीन् उत्तमान सेवकान प्राप्य नीलवर्णः स्वजातीन् अनादतवान् / अथ एकदा सन्ध्या-समये सर्वे शृगाला: सहैव शब्दम् अकुर्वन् / ततस्तं शब्दं श्रुत्वा जातेः स्वभावात् नीलवर्णोऽपि शब्दम् अकरोत् / इत्थं तं शृगालं परिज्ञाय व्याघ्रस्तं हतवान् / सत्यमेयोक्तम् यः स्वभावो हि यस्यास्ति सं नित्यं दुरतिक्रमः / श्वा यदि क्रियते राजा स कि नावनात्युपानहम / / (4) आश्रमेऽस्मिन् विद्यार्थिनां पित्तवृत्तिः सांसारिकचिन्ताभ्यः पराङ्मुखी सती केवलं ब्रह्मपरा वर्तते / बह्मचारिणः न केवलं शरीरेण मनसापि स्वस्थाः दृश्यन्ते। तेषाम् अध्ययननिष्ठा अनुपमा। स्वल्पेन कालेन वेदविद्यादिभिः सह शिल्पादीनां शिक्षाग्रहणं सुकर भवति तेषाम् / सर्वे ज्येष्ठविद्याबिनोऽवराणा साहाय्य कुर्वन्ति / कुलपतिः नित्यमेव विद्यार्थिनां दशसहस्रेषु प्रत्येकम् अनुचिन्तयति / 'कीदशेन समयेन कस्यचिद् विद्यार्थिनः समुदयो भविष्यति, कस्य वा विद्याथिनोऽपायमूवी प्रवृत्तिः कयं निरोद्धव्या' इति स मर्वेशं चरित्रस्य विकासार्थम् उपायं करोति / (5) तदाकण्य कोपज्वालाज्वलित इव योगी अवदत्-"विक्रमराज्येऽपि करमेप दुराचाराणाम् उपद्रवः ?" ततः मोवदत् -''महात्मन् ! क्व अधुना विक्रम राज्यम् ? वीरविक्रमस्य तु भारतभुवं विरहव्य पातस्य वर्षाणां सप्तदशशत्तकानि आतीतानि / क्व अधुना मन्दिरे मन्दिरे जयजयध्वनिः ? क्व सम्प्रति तीर्थे तीर्थे घण्टानादः? का अद्यापि मठे मठे वेदघोषः? अद्य हि वेदाः विच्छिद्य वीथीष विक्षिप्यन्ते / पुराणानि पिष्ट्वा पानीयेषु पात्यन्ते / क्वचिन्मदिराणि भिद्यन्ते / क्वचिद् दारा: अपहियन्ते / क्वचिद् धनानि लण्ड्यन्ते / क्वचिद आर्तनादाः / क्वचिद् रुधिरधाराः / क्वचिद् अग्निदाहः / इत्येव श्रूयते अवलोक्यते च परितः / " (6) भो मुने ! न युक्तम् अनुष्ठितं भवता यदहं पाषाणेन ताडितः / कि त्वम् धर्मात न बिभेषि / 'तत्समर्पय माम् एनां मूषिकाम्, नो चेद प्रभूतं पापम् अवाप्स्यसि' इति ब्रुवाणं श्येनं प्रोवाच सः शालं कायनो नाम तपोधनः / भो विहंगाधम ! पक्षणीयाः प्राणिनां प्राणाः / दण्डनीयाः दुष्टाः। सम्माननीयाः गुरवः / तत् किम् असंबद्धं प्रजल्पसि / श्येन आह-मुने ! न त्वं सूक्ष्मधर्म वेरिस / यथा भवताम् अनं तथा अस्माकं मूषिकादयी विहिताः विधिना। तत् स्वाहारकांक्षिणं मां कि दूषयसि / एतत् श्रुत्वा मुनिः विहरय माह-भो मूर्ख विहंगम ! कृतयुगे धर्मः सः आसीत् / एषः पुनः कलियुगः / अत्र सर्वोऽपि पापात्मा / तस्कर्म कृतं विना पापं न लगति / . तत् कि वृथा प्रलपितेन / गच्छ त्वम् / / (7) परमधुनाऽपि-"हं वा पातयेयं कार्य वा साधयेयम् / " इति कृतप्रतिशोऽसौ शिवबीरचरः न निजकार्यानिवर्तते। यस्याध्यक्षः स्वयं परिश्रमी, कथं सः न स्यात् स्वयं परिश्रमी ? यस्य प्रभुः स्वयं साहसी, कथं स न भवेत् स्वयं साहसी ? यस्य स्वामी स्वयम् आपदोन गणवति, कथं स गणवेद आपद्ः ? यस्य च महाराजः स्वसङ्कलितं निश्चयेन साधयति, कथं स न साधयेत् स्वसङ्कल्पितम् ? अस्त्येष महाराज-शिववीरस्य दयापात्रं चरः, सत् कथम् एष झम्झाविभीषिकाभिः विभीषितः प्रभुकार्य विगणयेत् ? इतश्च चरस्य एतस्य दृढप्रतिशता निर्भीकता सोत्साहतां स्वामिकार्यसाधन-सत्यसङ्कल्पता च परीक्ष्येव प्रशाम्ता वृष्टिः / . 18) एकदा दक्षिणारण्ये एको वृद्धव्याघ्रः स्नातः सरस्तीरे बूते। गो भो। पान्याः ! इदं सुवर्ण कळूणं गृह्यताम् / ततो लोभाकष्टेन मेग भिलाग्मेन बाबा