________________ 224 ] संस्कृत-प्रवेशिका [गुणाः पूजास्थानम् 0 प्रदान 'वाचिकी' हिंसा / शस्त्रादिना जीवस्य हननं प्रताडनं वा 'कायिकी' हिंसा / एतासां तिसृणां हिंसानां परित्यागोऽहिसेति कथ्यते / इत्थमहिसाया इदमेव मौलिक रूप यत् मानवैः मनसा वचसा कर्मणा च तन करणीयं यदन्येषां प्रतिकूल भवेत् / उक्तञ्च श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् / आत्मनः प्रतिकूलानि परेषां न समाचरेत् / / तथा प-'आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः' / एवम् 'आत्मवत् सर्वभूतेषु' इति सिद्धान्तानुसरणहिंसा / यदि जगति हिंसायाः ताण्डवनृत्यं स्यातहि न कोऽपि नरः देशो वा शान्त्या सुखेन वा स्थातुं शक्नोति / अहिंसाबलेनैव स्वस्य लोकस्य च कल्याणं भविष्यति / अहिंसाशस्त्रेणेव भारतदेशः पराधीनतां विहाय स्वतन्त्रतामलभत / भगवता महावीरेण, भगवता बुद्धन, महात्मना गान्धिमहोदयेन च अहिंसाया एवोपदेशः प्रदत्तः / कलिङ्गाधिपतिना सम्राजा अशोकेनाऽपि अहिंसायाः प्रचारः कृतः। जैनधर्मस्य मूलोहेश्यनऽहिंसा एव / अहिंसायाः महिमा अचिन्त्यः / शत्रवोऽपि अहिंसया मित्राणि भवन्ति, क्रूराः अपि सरला जायन्ते / अहिंसापरायणः सर्वत्र निर्भयं विचरन्ति, सुखं प्रतिष्ठांच प्राप्नुवन्ति। सत्य-तप-स्याग-क्षमा-प्रेम-पवित्रता-प्रभूतयः गुणाः समायन्ति / कि बहुना, असम्भबानि अपि कार्याणि अहिंसया सिध्यन्ति / अहिंसायाः माहात्म्यं विचिन्त्य एव अधुना सौराष्ट्रात विश्वशान्त्यर्थं प्रयतन्ते / इत्थम् अहिंसाव्यवहार प्रशस्तः सर्वोत्कृष्टधर्मप्रवेति निर्विवादमेव / सत्यमेवोक्तम्--'अहिंसा परमो धर्म:' / (20) गुणाः पूजास्थानं गुणिबु नलिङ्गं न च वयः (गुणहि सर्वत्र पदं निधीयते) 'पूजायाः आधारभूताः गुणा एव सन्ति न तु लिङ्गन च वयः' इति प्रतिपादकेन महाकविना भवभूतिना अरुन्धत्या मुखेन सीता प्रति स्वकीयः श्रद्धाभावः प्रदशितः अस्यां सूक्तो। श्लोकवायम् शिशु शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धत्कर्षस्त्वयि तु मम भक्ति दृढयति / शिशुत्वं स्त्रणं वा भवतु ननु वन्यासि जगतां गुणाः पूजास्थानं गुणिषु न लिङ्गं न च वमः / / वस्तुतः गुणीपुरुषः सर्वस्यापि जगतः सम्मानपात्रता लभते / लघुरपि सः महतो पूज्यः श्रद्धेयश्च भवति / महानपि गुणरहितः जनः सदाचारिभिः न केवलम् अनाद्रियते एव अपितु त्यज्यतेऽपि / धर्मप्रियेण गुणवता विभीषणेन विद्वान् स्वभ्राता रावणोऽपि परित्यक्तः, रामश्च आद्रितः। गुणाः पूजास्थानम् ] 3. निबन्ध [225 यद्यपि जगति 'सर्वे गुणाः काञ्चनमाश्रयन्ति' इत्यपि सूक्तिः सुप्रसिद्धा। दृश्यते च निर्गुणोऽपि गुणवान्, निरक्षरोऽपि विद्वान् भवति धनप्रभावात् / परन्तु अघुनैव सर्वत्र जीवन निर्वाहः न भवति / अर्थराशि प्राप्य जनाः सम्मानावाप्तये समाजे समुत्सुकाः दृश्यन्ते / वास्तविकी सम्मानप्राप्तिस्तु गुणद्वारा एव भवति / गुणिनं विना धनिकानां कार्यसिद्धिर्न भवति / 'गुणैर्हि सर्वत्र पदं निधीयते' इत्यं गुणरप्राप्यं किञ्चिदपि नास्ति / 'स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते' इत्यपि चोक्तम् / शास्त्राध्ययनमात्रेण कोऽपि विद्वान् गुणो वा न भवति / वस्तुतः स एव विद्वान् मुणवान् च यः क्रियावान् / गुणाः कुत्र भवन्ति ? कस्मिन् समये कस्थ वयसि वा समुद्भूताः भवन्ति? इति वक्तुं न शक्यते / तत्र स्त्रीत्वं-पुरुषत्वं, बाल्यत्वं वृद्धत्वं, शूद्रत्वं-ब्राह्मणत्वं च कारणं नास्ति / अतएवोक्तम् गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः / वासुदेवं नमस्यन्ति वसुदेवं न मानवाः / / न हि जन्मनि ज्येष्ठत्वं ज्येष्ठत्वं गुण उच्यते। गुणात् गुरुत्वमायाति दधि-दुग्ध-घृतं तथा / वस्तुतस्तु मानवजीवने गुणानां महन्मूल्यं वर्तते / गुणानामभावे तु मानवजीवन पशुवदेव निष्फलं भवति / सम्यगुक्तम् येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः। ते मत्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति / एतेषां गुणानामेव वैशिष्टयात् पिकः सक्रियते, काकः तिरस्क्रियते च / गुणः यादृर्ण सम्मान प्रतिष्ठा स्नेहश्च प्राप्यते तत् सर्व नान्यः साधनः। धनादिभिः या प्रतिष्ठा लभ्यते सा न चिरस्थायिनी, न लोकव्यापिनी न च सज्जनरनुमोदिता / अतः 'गुणं पृच्छस्व मा रूपम्, शीलं पृच्छस्व मा कुलम्' इत्युक्तम् / किच, 'गणा: गुणशेषु' गुणाः भवन्ति ते निगुणं प्राप्य भवन्ति दोषाः / इत्यादिभिः यथा गुणमाहात्म्य निर्विवादम् तथैव तत्र 'आयुलिनादीनां वैशिष्टधं नास्ति' इत्यपि समीचीनम् / अतः सर्वत्र गुणान् विचार्य एवं आदरः कर्तव्यः न तु केवलम् आयुलिङ्गादीन् विलोक्य / /