________________ 222] . संस्कृत-प्रवेशिका [ उद्योगः सते कल्याणाय हितं सत्यम् / वस्तुनः यद् स्वरूपं विद्यते तस्य तेनैव रूपेण प्रकाशनं सत्यमिति / सत्यधर्मस्य परिपालनमतीवकठिनम् / सत्यभाषणविषये एतदपि चिन्तनीयम् यत् तत् प्रियमपि भवेत् नाप्रियम् / अतएवोक्तम्-'सत्यं ब्रूयात् प्रियं श्यात् न चूयात्सत्यमप्रियम् / एवं सत्यवादिनः सर्वत्र साफल्यम्, सम्मानम्, कल्याणञ्च लभन्ते / यः खलु असत्यं वदति सः पथभ्रष्टः चरित्रभ्रष्टश्च भवन् सर्वत्र निन्दापात्रं भवति / इत्थम् असत्यभाषणेन स्वस्य हानिः नाशश्च भवतः / इतिहासाद् ज्ञायते यत् महाराजो दशरथः स्वप्रियपुत्र राम चतुर्दशवर्षेभ्यो धन प्रेषयत् / राजा हरिश्चन्द्रः सत्यपरिपालनार्थमेव विविधानि दुःखानि सेहे, पदे पदे अपमानितश्च अभवत्, परं सत्यभाषणात् न विरक्तः / अजातशत्रुः धर्मराजो युधिष्ठिरः सत्यभाषणस्य प्रभावादेव विजयश्रियमलभत / राजा मयूरध्वजो निजपुषस्य शिरो अरया विधा विभक्तवान् / महात्मा गान्धिमहोदयोऽपि सत्पादेव भारतवर्ष स्वतन्त्रमकरोत् / अतएव 'सत्यमेव जयते' इति राजचिह्न भारतस्य स्वीकृतम् / इत्थं यदि वयं जीवनपथि उन्नतिमभिलषामः तहि अस्माभिः सत्यव्रतस्य परिपालनमवश्यं करणीयम् / देशस्य, समाजस्य संसारस्य च कल्याणम् अभ्युदयश्च सस्यादेव भविष्यतः / अतः सत्यमेवोक्तम्- 'सत्यमेव जयते नानृतम्। (18) उद्योगः ( उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ) लघ महतो वा कस्यापि कार्यस्य सिद्धये उद्योगस्य महती आवश्यकता भवति / केवलम् इच्छामात्रेण कार्य न सिद्धयति / ये जनाः सततमेव उद्योगपरायणाः सन्ति तेषां कृते जगति किमपि असाध्यं दुर्लभञ्च नास्ति / उद्योगिनः पुरुषस्य पुरतः सिद्धयः बद्धाञ्जलयः उपस्थिताः भवन्ति, भाग्यमपि उद्योगिनः एव साहाय्यं कुरुते / उक्तच पूर्वजन्मकृतं कर्म तदैवमिति कथ्यते / तस्मात् पुरुषकारेण विना देवं न सिद्धयति / / तथा च-उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः। षडेते यत्र वर्तन्ते तत्र साहाय्यकृद् विभुः // अभिलषितार्थप्राप्त्यर्थ सुदृढेन संकल्पेन बाधामविगणय्य या प्रवृत्तिः, सा उद्योगः / उद्योगो हि पुरुषकारः, कर्म, उद्यमः इति च कथ्यते / सर्वाणि दुःखानि सर्व चाभावाः अकर्मण्यतया भवन्ति / आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुरस्ति / उद्यमसमो नान्यः बन्धुरस्ति / उद्योगी पुरुषः यदि इच्छेत्तहि समस्तं लोकमपि परावर्तयेत् / उद्योगाभावे सति प्राप्तमपि विनश्यति / अतएवोक्तम् उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीदेवेन देयमिति कापुरुषा बदन्ति / दवं निहत्य कुरु पौरुषमात्मशक्त्या यस्ने कृते यदि न सिद्धयति कोऽत्र दोषः / / अहिंसा] 3 : निबन्ध [ 223 किञ्च-उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः // तथा च-आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः / नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति // योजनानां सहस्रं तु शनर्गच्छन् पिपीलिका / अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति / / * सर्वत्र वयम् उद्योगस्य महत्त्वम् अवलोकयामः / येषां कृते पूर्वम् एकवारमपि भोजन दुर्लभमासीत्, ये च शतशो विदीर्णानि वस्त्राणि धारयन्तः महत्ता कष्टेन अङ्गगोपन कर्तुं शक्नुवन्ति स्म ते एव उद्योगेन महान्तो धनवन्तः सन्तः बहुमूल्यः कौशेयवसनः शरीराणि विभूषयन्ति / किमधिकम्, उद्योगेन अलभ्यमपि सुलभं भवति, असम्भवमपि सम्भव भवति, दुर्बलोऽपि बलवान् भवति, मूर्योऽपि विद्वान् भवति / प्रकृतिः स्वकीयं सर्वमपि भवं तस्मै उपायनीकरोति / वैज्ञानिकाः उद्योगप्रभावेणय जले, स्थले आकाशे च सर्वत्र अप्रतिहतगतिवन्तः सन्ति / लोके विषमता विलोक्य केचन कार्यसिद्धयर्थं देवं ( भाग्यम् ) प्रमाणयन्ति / देवे अनुकूले सर्व सुसाध्यं भवति, प्रतिकूले सति सर्व विपर्यस्यति / देवप्रभावादेव पुरुषोत्तमः रामोऽपि असम्भवमपि हेममृगं विलोक्य अलुभत / अतएवोक्तम्-.--'नवान्यथा भवति यल्लिखित विधात्रा' / परन्तु यथा क्षेत्रेषु उप्तमपि बीज सेचनादिकर्म अपेक्षते तथैव देवसाधनेऽपि उद्योगस्यावश्यकता नियता / अतएवोक्तं भगवद्गीतायाम् नियतं कुरु कर्म त्वं कर्म ज्यायो हकर्मणः / शरीरयात्रापि च ते न प्रसिध्येदकर्मणः // प्रकृतिरपि उद्योगपरतायाः एव शिक्षा वितरति / सूर्य चन्द्रादयः पक्षिकीटादयश्चसर्वे स्व-स्वकार्यसलग्नाः अवलोक्यन्ते / अतः अस्माभिरपि आलस्यं विहाय उद्योगपरायणः भवितव्यम्, यतः पौरुषं विना भाग्यमपि फलदं न भवति यथा केन चक्रेण न रथस्य मतिभवेत् / तथा पुरुषकारेण विना देव न सिद्धयति / / (16) अहिंसा (अहिंसा परमो धर्मः) सर्वेषामपि सत्य-ब्रह्मचर्यादीनां धर्माणा मूलम् अहिंसा वर्तते / अहिंसव धर्ममार्गः / परमात्मनोऽपरं रूपमहिसैव / अधुना जगति हिंसायाः साम्राज्यमस्ति / प्राणिवधः मनोरखनस्य साधनम् वर्तते / युद्धविभीषिका सर्वत्र जम्मायते / विश्वशान्तिः चिन्तनीयां दशां प्राप्ता। अतः वर्तमानसमये अहिंसायारुपयोगिता प्राचीनकालावपि अधिका जाता। हिंसा विविधा भवति-मानसिकी वाचिकी कायिकी च / कस्यचित जी अशुभादिचिन्तनं 'मानसिकी' हिंसा / असत्यभाषणेन कठोरभाषणेगा.tish