________________ 220] संस्कृत-प्रवेशिका [विद्या यद्यपि विज्ञानेन प्रथमविविधैराविष्कारैः विश्वस्य महानुपकारः कृतः तथापि चरमकोटिकराविष्कारः विनाशस्यापि सामग्री भृशं सुलभीकता; यथा-दानी सर्वेऽपि मानवाः संत्रस्ताः भीताश्व विज्ञानमभिशापं मन्यन्ते / वस्तुतस्तु, न किमपि वस्तु स्वतः एकान्ततः उपकारकम् अपकारकं वा / प्रयोगाधीनव तस्य उपकारकता अपकारकता वा / तस्मात् नायं विज्ञानदोषः / यदि कोऽपि विषं भुजानम् आत्मानं विनाशयेत् नायं विषस्पापराधः, किन्तु तत्प्रयोक्तुरेव / यदि विज्ञानस्य प्रयोगः सुखाय कल्याणाय शान्तये च भवेत् तहि अभिशापवार्ताऽपि नोदीयात् / तस्मात् विज्ञान तथैव प्रयोक्तव्यं यथा समस्तं जगतीतलं स्वर्गतुल्यं मानवजीवन सुखशान्तिमयं च सम्पद्येत / (16) विद्या (किं किं न साधयति कल्पलतेव विद्या विद्ययाऽमृतमश्नुते) विद्याधनं सर्वश्रेष्ठं घनमस्ति / अस्य वैशिष्टयमिदं यत व्यये कृते अपि विद्या संवद्धते, अव्यये तु क्षीयते / किञ्च, इदं धनं न भ्रातृभाज्यं न च पौरादिभिः अपहरणयोग्यम् / विद्यया इहलोकस्य परलोकस्य च सर्वाः अपि सम्पदः प्राप्तुं शक्यते, नान्येन साधनेन / अतएवोक्तं विचारकै: अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति / व्ययतो वृद्धिमायाति क्षयमायाति संचयात् // न चौरहायं न च राजहायं न भ्रातृभाज्यं न च भारकारि / व्यये कृते वर्धत एवं नित्यं विद्याधनं सर्वधनप्रधानम् / / विद्याशब्दस्य निष्पत्तिः 'ज्ञानार्थकस्य' विद्धातोः भवति / अतः वस्तुनः सम्यक्तया ज्ञानं विद्येति / लौकिकी विद्या (भौतिकज्ञानम्) अलौकिकी विद्या (आध्यात्मिकज्ञानम्) चेति द्विविधा विद्या / धर्माधर्मयोः, कर्तव्याकर्तव्ययोः विवेकः विद्ययैव भवति / अनया एव मनुष्यो मनुष्य इति / विद्याविहीनस्तु मूर्खः, असभ्यः, पशुरिति च व्यपविश्यते / विद्यार्वभवसम्पन्नः देशे विदेशे सर्वत्र पूज्यते / विदेशे यत्र सर्वे अपरिचिताः सन्ति तत्र वियव बन्धुः, गुरूणां गुरुरपि विद्यैव / किमधिकं विद्यैव परमा देवता। कविना समीचीनमुक्तम् विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः / विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम् विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः // तथा च-'स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते / ' विद्याबलेनैव मानवाः अमृताः भवन्ति परमपदवीञ्च प्राप्नुवन्ति 'विद्ययाऽमृतमश्नुते / राजानः विद्यावा पुरस्तात् नतमस्तकाः जायन्ते / विद्या प्रदीप इव सन्मार्ग दर्शयति–'घनान्धकारेष्विव दीपदर्शनम्। महाकविना दण्डिनाऽपि उद्घोषित सत्यम् 3: निबन्ध [ 221 यद् यदि अस्मिन् जगति विद्याज्योतिः न भवेत् तहि इदं सकलं जगत् अन्धकारावृतं सम्पत्स्येत इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् / यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते // . अपि च-'सर्वस्य लोचनं शास्त्रं यस्यनास्त्यन्ध एव सः।' शब्दाह्वयं ज्योतिरण विद्येव अस्ति / 'ब्रह्मविद् ब्रह्मव भवति', 'ऋते ज्ञानान मुक्तिः' इत्यादयः श्रुतयः अपि मोक्षप्राप्तिकारणभूतायाः विद्यायाः माहात्म्यं प्रकटयन्ति / विद्या एकमुत्तमं भूषणमपि अस्ति-'विद्यासमं नास्ति शरीरभूषणम्' / सर्वविध शिष्टये सत्यपि एतदपि सुनिश्चितं यद् विनयेनैव विद्या शोभते / विनयाभावे विद्या 'विद्या' नास्ति / अतएवोक्तम् विद्या ददाति विनयं विनयाद् याति पात्रताम् / पात्रत्वात् धनमाप्नोति धनाद् धर्मस्ततः सुखम् // यद्यपि संसारे लक्ष्मीसरस्वत्योः विरोवोऽपि दृश्यते / त्रचित् मतिमतां या दरिद्रता अवलोक्यते तत् सर्व दुर्भाग्यविजृम्भितम् सम्यग्ज्ञानाभावो वा / सः एव विद्वान् यस्तु क्रियावान् / अतएवोक्तम्-'विद्यामधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषः स विद्वान् / ' विद्याकृते महान् श्रमः अपेक्ष्यते / अतः विद्यार्जनकाले विद्याथिभिः आलस्यं परित्यज्य सुखचिन्ता न करणीया, यतो हि सुखाथिनो कुतो विद्या, विद्यार्थिनश्च कुतः सुखम् / किंबहुना, आविष्काराणां जननी, कर्तव्याकर्तव्यशापका, मुक्तिप्रदा, सुखावहा' कीतिविस्तारिका, कामदुहा, बन्धुसमा, प्रदीपतुल्या, दिव्यनेत्रसहशा, कल्पलतेव विद्या किं किं न साधयति / समुचितमेव भणितम् मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्यपनीय सेदम् / लक्ष्मी तनोति वितनोति च दिक्षु कीति किं किं न साधयति कल्पलतेव विद्या / / (17) सत्यम् (सत्यमेव जयते नानृतम्) / सर्वेषु गुणेषु सत्यं सर्वोत्कृष्ट वर्तते / सर्व ग्रन्थाः एकमुखेन सत्यस्य महिमानमुद्धोषयन्ति / यथा-'नास्ति सत्यात् परो धर्मों, नानृतात् पातकं महत् / ' ये नराः सततं सत्यमेव भाषन्ते न खलु कदाचिदपि अन्तां गिरं निःसारयन्ति ते सर्वेषामपि कृते विश्वासस्य श्रद्धायाश्च भाजनानि भवन्ति / ऐहिक पारलौकिकच सर्व विधं मङ्गलं भवति अनेन गुणेन / अश्वमेधसहस्रादपि सत्यमेव विशिष्यते / अतएवोक्तम्--- अश्वमेधसहनं च सत्यं च तुलया धृतम् / 'अश्वमेधसहस्राद् हि सत्यमेव विशिष्यते // तथा चोपनिषदि लिखितम्-'सत्येन लभ्यस्तपसा मेष भागा'। किञ्च, 'सर्व सत्ये प्रतिष्ठितम्'।