________________ 214] संस्कृत-प्रवेशिका [ अनुशासनम् तालाभेऽपि देशेऽस्मिन् अस्याः महती आवश्यकता / यतः एनां विना आर्थिक विकासः संरक्षण च न संभवति / इति विचार्य भारतीयाः प्रातः शयनतलादुत्थायव जन्मवसुग्धरा नमस्कुर्वन्ति वसुन्धरे नमस्तुभ्यं भूतधात्रि नमोऽस्तु ते / रत्नगर्भ नमस्तुभ्यं पादस्पर्श क्षमस्व मे // अपि च---'क्षोणोऽपि देहमिव कस्त्यजति स्वदेशम् // ' मनीषिभिः मातृभूमिरपि मातैव मन्यते 'माता भूमिः पूषोऽहं पृथिव्याः' / अतः सर्वैरपि मातृसेवां देशसेवां च प्रति दृढ़प्रतिभिर्भाव्यमिति / (13) अनुशासनम् ( सो शक्तिः कलौ युगे एकता) 'मनु' 'उपसर्गपूर्वकात् 'शास्' धातोः निष्पन्नोऽयम् 'अनुशासन' शब्दः / तैत्तिरोयोपनिषदः शांकरभाष्ये अस्य व्याख्यानम् ईश्वरवचनरूपेण कृतम् / गुरुवचनं शासकवचनं वा ईश्वरवचने अन्तर्भूतम् / प्रकारान्तरेणापि इदं व्याख्यातुं शक्यतेमनु - पश्चात् = गुरुपगमनानन्तरं तदीयशासनम् = हिताहितकरणपरिहाररूपवचनम् 'अनुशासनम् / अग्रे एतदेव सामाग्यरूपेण कस्यापि शासकस्य वचनानुसरणे तदादेशपालने वा परिणतम् / फलतः अस्य शब्दस्य अयमर्थः अस्ति यत् कस्यापि व्यवस्थितनियमसमुदायस्य विधिवाक्यवत् (क्षोव-क्षेमं विनंव ) पालनमेव अनुशासनम् / अनुशासनम् द्विविधम-स्वाभाविक बलादारोपितं च / पूर्व तु विनम्रता-आत्मसंयमादिसहितम्, व्यवस्थित-नियम-सदादर्शप्रभवम्, स्वेच्छया परिगृहीतं च भवति / अपर तु दुःखदेण्यादिसंवलितम्, दण्डभीतिजन्यम्, अनिच्छया पालितं च / दासत्वभावनाविकासप्रतिवन्ध स्वतन्त्रचिन्तनाभावादिदोषाः द्वितीये एवं अनुशासने संभवन्ति, न. तु प्रथमे। जीवनस्य प्रत्येको अनुशासनस्य महती आवश्यकता भवति / एतद् विना कुषापि कदापि कस्यापि सफलता न संभवति / अनुशासनमन्तरेण कापि सुष्यवस्था न प्रचलितुं शक्नोति / स एव देशः समाजश्च समुन्नतो भवति यस्मिन् प्रजाः शासकाश्च अनुशासनपालकाः / अतः गृहे आशैशवाद् अनुशासनस्य शिक्षा पितृभिः शिक्षासंस्थासुच तदधिकारिभिः प्रदेया / अम्यान स्वप्रभावेण, न तु दण्डभयेन अनुशासयितुम् अधिकारिभिरपि स्वयं सदाचारिभिः कर्त्तव्यपरायणः अनुशासनप्रणयिभिश्च भाष्यम् / नहि स्वयं सदाचारविरहिताः कर्तव्यपराङ्मुखाः अनुशासनविहीनाः अन्यान् अनुशासने स्थापयितुं प्रभवन्ति / अनुशासनं न केवल सैनिकानां कृते आवश्यकं किन्तु सर्वेभ्यः, विशेषतन छात्रेभ्यः यतः देशस्य छात्राः भाविनः कर्णधाराः विद्यार्षिकर्तव्यम् ] 3 : निबन्ध [215 भाग्यविधातारश्च सन्ति / अतः तेषाम् आत्महिताय, देशकल्याणाय, आगामिन्याः सन्ततेः पुरः समुचितादर्शसंस्थापनाय च अनुशासनमपरिहार्यम् / साम्प्रतं परितः दृश्यमाना स्वेच्छाचारिता अनुशासनस्य बाधिका / स्वेच्छाचारितया अध्ययनानुरागिणः छात्राः, अभिभावकाः, शिक्षासंस्थाधिकारिणः अन्ये सर्वेऽपि चिन्तिताः उद्विग्नाश्च / छात्रेषु अनुशासनशिथिलतायाः चरित्रहीनतायाः स्वेच्छाचारिताया प्रधान कारणम्-समुचितादर्शानुपलम्भः / यस्मिन् गहे अनुशासनं नास्ति तत्र कुटुम्बिनः गुरोः अनादरं कुर्वन्तः, यथेच्छ व्यवहरन्तः, परस्पर पदे पदे विवदमानाः न जातु शान्ति सुखं च लभन्ते / इयमेव स्थितिः अनुशासनापेतस्य समाजस्य देशस्य च / अत्र इतिहास एव प्रमाणम् / निर्विवावमेतत् यद् अल्पसंख्याकेन संघटितेन अनुशासितेन सैन्येन विपुला अपि अनुशासनविहीना विघटमाना सेना पराजीयते / यतः 'संघे शक्तिः कली यगे यदा भारतीयेषु एकता-भावनाया मारैतिरभूत् तदा ते स्वाधीनार अभवन् / एकमुद्देश्य लक्ष्यीकृत्य बहूनां नराणाम् एकत्वभावनया कार्यकरणम् 'एकता' इत्युच्यते / एकता अनुशासनं विना न सम्भवति / यतः अनुशासनाधीना संहतिः, संहति नियता एकता, एकता-निबन्धना शक्तिः, शक्तिमूलको अभ्युदयः, अभ्युदयापेषां च सुषम् / अतएवोक्तम् - अल्पानामपि वस्तूनां सहतिः कार्यसाधिका / तृणगुणत्वमापन्नध्यन्ते मत्सदन्तिनः // ऋग्वेदेऽपि अनुशासित-एकतायाः आवश्यकता प्रतिपाविता 'संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् / / प्रकृतिरपि अनुशासनप्रवणा, यतः निश्चिते काले एव फलन्ति वृक्षाः, पुष्पाणि विकसन्ति, ऋतवः आयान्ति गच्छन्ति च / नात्र संदेहलेशोऽपि यद् अनुशासनाभावे सर्वमपि अव्यवस्थितम्, अकिञ्चित्करम, कष्टबहुलम्, विमाशोन्मुखं च। देशस्य स्वतन्त्रताप्राप्तिः, तदक्षणम्, समष्टिरूपेण व्यष्टिरूपेण वा उत्थानम, एवंविधाः संख्यातीताः अनेके भावाः अनुशासनस्य अमितमहत्वं प्रकटयन्ति / यथोक्तम् 'लालने बहवो दोषाः शासने बहवो गुणाः / ' तस्माद जीवनस्य सर्वेषु अपि क्षेत्रेषु अनुशासनं पालनीयम् / सफलतायाः मूलमन्त्रः अनुशासनमेव। (14) विद्यार्थिकर्त्तव्यम् विद्यायाः अधिनः-अभिलाषिणः 'विद्यार्थिनः तेषां कर्तव्यम् -करणीयकार्यकलापः 'विद्याधिकर्तव्यम्। मानवजीवने चतुर्ष कालेषु भिन्नरूपेण विद्या