________________ भातृभक्तिः देशभक्तिश्च ] 3: निबन्ध [215 212] संस्कृत-प्रवेशिका [मातृभक्तिः देशभक्तिच 3. काठिन्यं न बनु संस्कृतस्प दोषः किन्तु तदध्यापनप्रणाल्याः। यतः इदानीमपि सुगमतमरीत्या संस्कृतम् अनायासं पाठयितुं शक्यते / 6. सत्कृताध्येतणां कूपमण्ट्रकता नाध्ययनजन्य। किन्तु वातावरणप्रयुक्ता, स्वमस्तिष्कप्रयुक्ता च, तेष्वपि यास्मन् कस्मिन् दूरदशितायाः आधुनिकतावाश्योपलम्भात् / इतिहासपर्या लोचनेन इदं सुस्पष्टं यद् अतीते समये संस्कृतज्ञाः एव महर्षयः राजनीतिज्ञाः, शास्त्रको विवाः, व्यवहारकुशलाः, देशसमुद्धारकान अभवन् / 5. भाषाज्ञानस्य ज्ञानमेव फलं, न तु-अर्थोपार्जनम् / यथोक्तम्-'गुणाः खलु गुणाः एव, न गुणाः भूतिहेतवः।' धनसञ्चयकतणि भाग्यानि पृयगेव हि / अन्यच्च नेदं तथ्य यत् संस्कृताध्ययनात् धनागमो न भवति, व्यापकविगतोपलब्धेः / एवं धर्मसंस्कृतिपरम्परादिविज्ञानाय ऐक्यसंरक्षणाय व संस्कृतस्य महती उपयोगिता / इयमेव भाषा समस्तदेशम् एकतासूत्रे बध्नाति / इयमेव भारतस्य प्राणभूता भाषाऽस्ति / अस्याः गुणगणस्य वर्णने महाविद्वांसोऽपि असमर्थाः सन्ति / वेदाः, भगवद्गीता, पुराणानि, धर्मशास्त्राणि, काव्यानि च अस्याः माहात्म्यमेवोद्घोषयन्ति / अतः अस्याः संरक्षणाय, संवर्धनाय, प्रचाराय सर्वरपि सततं प्रयतनीयम् / इयं दशस्य निधिः, अनुपम वैशिष्टयम्, अनन्यलम्या विभूतिश्च / (12) मातृभक्तिः देशभक्तिश्च (जननी जन्मभूमिश्च स्वर्गादपि गरीयसी) भगवता रामचन्द्रेण कनकमथ्याः लङ्कायाः सुचानि तिरस्कृत्य मातुः (जनन्याः) मातृभूमेः (स्वदेशस्य ) च महत्त्वमजीकृतम् अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते / जननी जन्मभूमिश्च स्वर्गादपि गरीयसी // यो नरः यस्याः कुक्षी जन्म लभते सा तस्य जननी भाताबा, तथा यो यस्मिन् प्रदेशे जन्म लकवा वर्धते जीवनं च यापयति सः तस्य जन्मभूमिः स्वदेवाः मातृभूमिळ / यथा जनन्याः स्वसुतं प्रति नैसोगकं प्रेम भवति तथैव नराणां जननी जन्मभूमि च प्रति नैसगिकी भक्तिः, तयोः प्राणादपि संरक्षण मातृभक्तिः देशमक्तिश्च कथ्यते / मातृकुक्षी मातृभूमौ च नरैयदृिर्श सारख्यपूर्ण निष्कपटः स्वाभाविकश्च सुखं समनुभूयते तादृशं स्वर्गेऽपि न सम्भवम् इति / बालकस्य कृते मातव सर्वस्वमस्ति / सा तदर्थ स्वीयं कष्टजात अगणम्पि,लं प्राणायपि रक्षति / सा स्वयमपीत्वा पुत्रं पाययति, स्वयमनङ्कित्वा स्वसुतस्योदरं भरति, नामकस्य सुखचिन्तय सदा तस्याः समक्षं भवति / पुर्व कष्टान्वितमवलोक्य तस्याः हृदयमतिशयेन अति। सा स्वकीयेन अलोकिकेन स्नेहेन स्वयं करकवर्ष सहमानापि स्वजातं स्वाथै पालयति- लालयति च / किं बहुना, किमस्ति तद् यद् अलौकिकेन मातुःस्नेहेन नहि पूर्यते / उक्त 'कुपुत्रो जायेत क्वचिदपि कुमाता न भवति / अतः उपनिषत्सु आदिश्यते -'मातृदेवो भव' / नरः कवाचिदपि मातुरनृणता प्राप्तुं न शक्नोति / भनुनाऽप्युक्तम्--- यं मातापितरौ बलेशं सहेते संभवे नृणाम् / / न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि / / एतादशगुणसम्पन्ना जननी.. स्वर्गादप्यधिका कथन स्यात् / अतः पुरैरपि तस्याः सेवा अवश्यकरणीया / प्राचीनकाले श्रवणदिभिः भातृ-पितृसेवा प्रदर्शिता / अस्मागिरपि सर्वदा प्राणपणेन जननीसेवार्थ प्रयतितव्यम् / ___ स्वदेशं प्रति मानवानां नैसगिक प्रेम 'देशभक्ति अथवा स्वदेशस्य समुन्नतये या सर्वपरित्यागरूपा भावना सा 'देशभक्तिः। स्वदेशस्याने स्वजीवनमपि तणाय मन्यन्ते देशभक्ताः / न कोऽपि देशः तावत् समुन्नतो भवति यावत् तत्र देशभक्ताः न स्युः / अतो मानवानां कृते देशभक्ति प्रधानं कर्तव्यम् / तां विना ते भारभूताः शवकल्पान / ये जनाः देशस्य - रक्षाय सदा प्रयतन्ते तथा अवसरे सति स्वशरीरार्पणमपि कुर्वन्ति तेषामेव जीवन जीवनम, तद्विपरीतानां तु जीवनं सर्वथा व्यर्थम् / यथोक्तमम स्वदेशो परमा प्रीतिः यस्य नास्ति च गौरवम् / धन-धान्ययुतस्यापि व्यर्थ तस्य हि जीवनम् // जन्मभूमेः क्षेत्र विस्तृतं वर्तते / सा सर्वदा अतिशयानन्दप्रदायिनी; अतः यदा दूरस्थः जनः स्वकीयां जन्मभूमि मागच्छति तदा स्वमातुरभावेऽपि हर्षातिशयमनुभवति / इत्थमस्ति तत्र कश्चिदभुतानन्दस्य उत्सः। देशभक्ताः स्वल्पेनैव कालेन अवनतमपि स्वदेषां समुषतेः शिखरं प्रापयन्ति / यथामहात्मागान्धि-लोकमाग्यबालगंगाधरतिलक-सुभाषचन्द्रबोस-सरदारभगतसिंहप्रभृतयः / एत: पुण्यश्लोकैः महानुभावः देशहिताय स्वशरीरम् अपितम्, बहूनि दुःखानि च सोढानि / देशद्रोहिणः तथैव समुपतमपि देशं स्वल्पेनैव कालेन अवनतेः गतं प्रापयन्ति / यथा-जयचन्द्र-मीरजाफरप्रभृतयः / एतः जघन्यैः देशद्रोहिभिः स्वार्थसाधनाय तथा कृतं येन देशस्य महती हानिरापतिता, तेषां स्वार्थोऽपि च नष्टः / देशभक्तेः बहूनि अङ्गानि भवन्ति / यथा अशान्तिसमये राजनीतिकान्दोलने योगदानम्, युद्धकाले शत्रुनाशाय विविधाःप्रयला तथव शान्तिकालेऽपि. देशानुरागवर्षक नबीनसाहित्यसर्जनम्, आवश्यकतानुसार सर्वतोमुखानि नतननिर्माणानि, विशामकलादिविकासश्च / देशहिते साधिते वयक्तिकलाभोऽपि संभवति / यतः विनटे राष्ट्र कुत: कल्याणम् / देशभक्तिः तदैव विकसिता प्रतिष्ठिता च भवति यदा बानो या प्रारम्भतः एव तस्याः शिक्षा प्रदीयते / तदनुकूल विपुलसाहित्यसर्जनमपि संभवेत् / स्वतन्त्र त्या