________________ 210] संस्कृत-प्रवेशिका [संस्कृतभाषायाः महत्त्वम् एतादृशाः एव अनेके परोपकारपरायणाः श्रीराम-कृष्ण-महावीर-बुद्ध गान्धि-मालवीयप्रभूतयः महापुरुषाः संजाताः येषां सुकृत्यैः देश: समुन्नतः अभवत् / एतेषां सर्वां यशांसि चिरस्थायीनि / उक्तन श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिनं तु कङ्कणेन / विभाति कायः खलु सज्जनानां, परोपकारेण न चन्दनेन / / 'परोपकारपरायणानां सर्वदा सर्वत्र च सम्मानः अवश्यम्भावी' इति. मस्वा सर्वेरपिसदं स्वार्थ परित्यज्य परोपकाराय यतनीयम् / यदि मानवानां हृदयेषु परोपकारस्य अल्पा अपि भावना समुदिता भवेतहि संसारस्य बह्वीनां जटिल समस्यानाम् अनायासमेव समाधानं सम्पद्यत, शान्तिश्च स्थाप्येत / 'उदारचरितानान्तु वसुधैव कुटुम्बकम्', 'सर्वे भवन्तु सुखिनः' इत्यादिसिद्धान्तवन्तः परोपकारिणः भवन्ति / अन्येषाम् उपकर्तुः आत्मनोऽपि हितानि भवन्ति, विभूतयश्च पवे-पदे आयान्ति / यथोक्तम्'परोपकरणं येषां जागति हृदये सताम् / नश्यन्ति विपदस्तेषां सम्पयस्तु पदे पदे // अपि च; परोपकारः कर्तव्यः प्राणरपि धनरपि। परोपकारजं पुण्यं न स्यात् क्रतुशतैरपि।। (11) संस्कृतभाषायाः महत्त्वम् वैशिष्टयञ्च संसारेऽस्मिन् विभिन्नदेशेषु विभिन्नाः भाषाः प्रचलिताः सन्ति / न कोऽपि ताः परिगणयितुं समर्थः / संस्कृतभाषायाः इदं वैशिष्टधं यदियमेव 'देवीवाक्', 'सुरभारती', 'गीर्वाणवाणी' इत्यादिपरभिधीयते, नान्या कापि भाषा / अन्यच्च, अन्याः सर्वाः भाषाः मानवव्यवहारमात्रसाधनभूताः किन्तु संस्कृतभाषा कर्मविद्या-ब्रह्मविद्योभयप्रतिपादिका अपि अस्ति / इयं संस्कृतभाषा प्राचीनतमा, सुप्रसिद्धा, प्रायः सर्वासामपि भारतीयभाषाणां जननी च / प्राकृत-पालि-अपभ्रंशादिप्रणाल्या अधुना प्रचलिताः हिन्दी-बंगला-मराठी-गुजराती-प्रभृतयः सर्वाः अपि भाषाः एतस्याः एव समुद्भूताः इति पुत्री-पौत्रीस्थानापन्नाः / अस्याः व्याकरणं सर्वतोभावेन वैज्ञानिकं सर्वविधदोषरहितं सुव्यवस्थितं च / अतएव मैकडानल-कीलहान-मैक्समूलर-कीयप्रभूतयः वैदेशिका: विद्वांसः अपि अस्याः प्रशंसा मुक्तकण्ठेन अकुर्वन् / 'सम्' पूर्वकात् 'कृ' धातोनिष्पन्नः 'संस्कृत' शब्दः / भाष्यते - जनः दैनन्दिनव्यवहारे प्रयुज्यते इति भाषा / अनया व्युत्पत्त्या अनुमातुं शक्यते यत् कदाचिद् इयमपि जनसाधारूप प्रयुज्यमाना आसीत् / श्रूयते यदियं भाषा पूर्वम् अव्याकृता (प्रकृति-प्रत्ययसंस्काररहिता, अखण्डरूपा च ) आसीत्, प्रयोक्तृदोषेण कालक्रमेण किञ्चित् अपभ्रष्टा च अभवत् / पश्चान् देवतानुरोधेन इन्द्रः व्याकरणशास्त्र निर्माय इमा व्याकृताम् (प्रकृति-प्रत्ययसंस्कारसहिताम् ) अकरोत् / अतएव 'संस्कृतम्' इयं संस्कृतभाषायाः महत्त्वम् ] 3: निबन्ध [211 संज्ञा प्रचलिता अभवत् / एवम् अस्याः भाषायाः प्रथमं व्याकरणम् 'ऐन्द्रम्' (इन्द्रप्रणीतम्) आसीत् / अधुना 'पाणिनिव्याकरणम्' (पाणिनिप्रणीतम्) पठन-पाठने प्रचलितम् / प्रकृति-प्रत्ययसंस्कारयुक्ता इयं संस्कृतभाषा साधुशब्दवती इति / साधुशब्दप्रयोगेन धर्मो भवति, असाधुशब्दप्रयोगेन तु अधर्मः / यथोक्तम् 'एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्ग लोके च कामधुग भवति' / अस्याः भाषायाः द्विविध रूपम्-वैदिकं लौकिक च / वेदस्य चत्वारो भागा:मंत्र-ब्राह्मण-आरण्यक-उपनिषदः / तत्र भवं संस्कृतं वैदिकमिति कथ्यते / तदुत्तरम् अन्यग्रन्थेषु भवं संस्कृतं लौकिकम् इति निगद्यते / अस्याः भाषायाः शब्दकोषः (Vocabulary) बृहत्तमः, नवीनशब्दनिर्माणसामर्थ्यमपि प्रभूतम् / एतस्याः साहाय्येनैव हिन्दीप्रभृतिभाषान्तरेषु विज्ञानादिपारिभाषिकशब्दाः निर्मातुं शक्यन्ते / अस्माकं सर्वाः प्राचीनविद्याः कलाश्च अस्यामेव भाषायाम् उपनिबद्धाः / अतः सस्मिन्-तस्मिन् विषये प्राचीनसाहित्यज्ञानलाभाय नवीनसाहित्यसर्जनाय च संस्कृतस्य अध्ययनमनिवार्यम् / संस्कृतभाषायाः ज्ञानं विना भारतीयाः आत्मनः पुरातनमितिहास, प्राचीनपरम्पराः, संस्कृतिम्, ज्ञान-विज्ञानादिकं च सम्यग् अधिगन्तुं न प्रभवन्ति / भाषाविज्ञानस्यापि दृष्ट्या अस्याः महत्त्वं निर्विवादम् / एतत्साहाय्येन भारोपीयअवेस्ता-लैटिनप्रभृतीनामपि भाषाणां ज्ञानं सुगर्म भवति / इत्थं च संस्कृतज्ञाने सति स्वल्पप्रयासेनैव बहीनो भाषाणां ज्ञानं लब्धुं शक्यते / विश्वसाहित्यस्य सर्वप्राचीनअन्याः वेदाः संस्कृतभाषायामेव उपनिबद्धाः। वाल्मीकि-व्यास-कालिदास भवभूति-बाणप्रभृतयः महाकवयः अस्यामेव ग्रन्थान् लिखितवन्तः / समयानुरोधेन संस्कृतभाषा इदानी बहुधा आक्षिप्यते / केचन इमां मतां वर्तमानकालानुपयोगिनीं च मन्यन्ते / अपरे इमाम् अतीवकठिनां मत्वा एतदध्ययनात् पराजयन्ते / अन्ये तु इमाम् अर्थोपार्जनाक्षमाम्, व्यम्, कूपमण्ट्रकतासाधिकाम्, व्यवहाराद् दूरापेतां च गणयन्ति / इमे सर्वेऽपि अधिक्षेपाः भ्रान्तिमूलकाः; यतः 1. यावत् कस्यामपि भाषायाम् अध्ययनचिन्तनादिकम् अनुवर्तते, नबीनग्रन्थनिर्माणं च प्रचलति तावत् सा मतेति कथयितुं न शक्यते / इदानीमपि अस्याम् उभयम् उपलभ्यते / तस्मान्न जातु मृता इति वक्तव्यम् / 2. संस्कृतभाषा साम्प्रतमपि नानुपयोगिनी, नापि व्यर्या / प्रयोगाभावेन अनुपयोगिता न सिद्धयति / यथा पार्श्वस्थितम् उपनेत्रम् धारकेण अप्रयुक्तमपि नागुपयोग भवति, तस्य प्रकाशनस्वरूपयोग्यतायाः तदानीमपि सद्भावात् / शाम-विज्ञानपि. लाभः यथा संस्कृतभाषया संभवति न तथा अन्यया भाषया / मायं भगोषurm क्षमः, योग्यः, समर्थोऽपि नोपयुज्यते, न वा तेन तरयानुपयोगिता भिवति /