________________ 206] संस्कृत-प्रवेशिका [8: सत्सङ्गतिः . 2: सदाचारः] 3 : निबन्ध [207 एव मंत्रीम्, विचारविमर्शम्, आहारा दिव्यवहारं च कुर्यात्, न जातु असज्जनः सह / उक्तञ्च भवभूतिना सत्सङ्गतिमाहात्म्ये-'सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति / ' किन्नाम तद् हितं यत्सङ्गतिनं वितनुते / भर्तृहरिणा मीतिशतके अभिहितम् जाडधं धियो हरति सिञ्चति वाचि सत्यम्, पानोमति दिशति पापमपाकरोति / चेतः प्रसादयति दिक्षु तनोति कीति, सत्सङ्गतिः कथय किं न करोति पुंसाम् / / अपि च पापन्निवारयति योजयते हिताय, गुह्यं निन्हति गुणान् प्रकटीकरोति / आपद्गतं प न जहाति ददाति काले, सत्सङ्गतिः कथय किन करोति साम् // अतः समुन्नतिम् इच्छता जनेन सदा सतामेव सङ्गतिविधेया न कदाप्यसताम् / उक्तमपि सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् / सद्भिविवाद मैत्रीच नासद्भिः किश्चिवाचरेत् / / किमधिकम्, सत्सङ्गतिः सर्वान् कामान् पूरयति यथाहि कल्पनुमः कल्पितमेव सूते स कामधुक कामितमेव दोधि / चिन्तामणिश्चिन्तितमेवघले सतां तु सङ्गः सकलं प्रसूते / / (8) सत्सङ्गतिः (सत्सङ्गतिः कथय किं न करोति पुंसाम - सतां तु सङ्गः सकलं प्रसूते) "सतां = सज्जनानां सङ्गतिः = संपर्कः ( सम्बन्धः) 'सत्सङ्गतिः'। यो यादर्शः पूरुषः सह सङ्गति करोति सः तादृगेव भवति / सज्जनानां सङ्गत्या जनः सज्जनो विनम्रश्च भवति, असज्जनानां च सङ्गत्या सः दुष्टः उद्धतश्च भवति / यथा 'स्पर्शन मणेः संसर्गात सौहमपि स्वर्णावते तथैव सज्जनसंसति निर्गुणोऽपि सकलगुणोपेतः सज्जनश्च जायते / यथोक्तम् काचः काञ्चनसंसर्गातत्ते मारकती द्युतिम् / तथा सत्सन्निधानेन मूखों याति प्रवीणताम् / / अपि च-'संसर्गजा दोषगुणा भवन्ति / तथा च-'कीटोऽपि सुमनः संगाद् आरोहति सतां शिरः। तस्मात् सतामेव सङ्गतिविधेया न कदाप्यसताम् / सता संगत्या बुद्धिनिर्मला भवति / असत्संपर्केण तु मलिनीभवति / निर्मलायां बुद्धी कार्याकार्यविवेकः प्रस्फुटति, मलिनायां तु सोऽपगच्छति / अतः उक्तम् वरं पर्वतदुर्गषु भ्रान्तं वनचरैः सह / न दुष्टजनसम्पर्कः सुरेन्द्रभवनेष्वपि // मस्मिन् जगति न कोऽपि एकाकी संसरति / अनेकः परिचितापरिचितः सह मिलिस्वैव व्यवहरनित्त जनाः / संसारमात्रायां विविधक्रियाकलापेषु परसङ्गतिरनिवार्या / मनुष्यः सामाजिक प्राणी / तस्मात् परसंपर्क विना सः जीवनयात्रा न कर्तुं शक्नोति / सर्वस्यैव मित्राणि शत्रवश्च भवन्ति / एवं स्थिते यदि सः सद्भिः संपर्क करोति तर्हि तस्य जीवनं सुन्दरं सफलं च भवति / अन्यथा महान्ति कृच्छाणि आयान्ति, अकीतिश्च प्रसरति / इत्थं च मानवस्योपरि सङ्गतेरनिवार्य प्रभावः / बालकस्योपरि तु विशेषरूपेण, तस्य कोमलस्वभावत्वात् बुद्धरपरिपाकाच्च / सः यादृशैः सह पठिष्यति, गमिष्यति, क्रीविष्यति, खादिष्यति, वस्य॑ति येभ्यश्च शिक्षा ग्रहीष्यति तादृगे। भविष्यति / यथोक्तं हितोपदेशे-"यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत्।" तत्र दुर्जनानां संसर्गेण अवर्णनीयाः ज्ञाताः अज्ञाताः वा हानयः भवन्ति / यथा-वृद्धिभ्रंशः, सच्चरित्रतानाशः, सुहृज्जन वियोगः, सम्पत्तिह्रासः, सद्गुणोच्छेदः, कुलमालिन्यम्, सर्वत्राकीर्तिप्रसारः, सर्वानादरभाजनता इत्यादयः / सत्यमेव कथितम् दुर्जनः परिहर्त्तव्यः विद्ययाऽलङ्कृतोऽपि सन् / मणिनः भूषितः सर्पः किमसौ न भयङ्करः / - अपि च-हीयते हि मतिस्तात ! हीनः सह समागमात् / समैश्च समतामेति विशिष्टश्च विशिष्टताम् / / तथा च-असतां सङ्गदोषेण को न याति रसातलम् / अतः सज्जनः सह (3) सदाचारः (आचारः परमो धर्मः शीलं परं भूषणम् =आचारहीनान पुनन्ति वेदाः ) सता सज्जनानाम् आचारः 'सदाचारः' अथवा राम्सम्यक् आचारः 'सदाचारः'। मानवस्य उप्रतिसाधकेषु गुणेषु सदाचारस्य प्रथम स्थानम् / तस्य सम्पूर्णमहिमा शब्दवर्णयितुं न शक्यते / यत्र सदाचारः तत्र सत्यवादिता, विनम्रता, धार्मिकता, जितेन्द्रियता, अलोलुपता, निष्कपटता अन्ये च सर्वे सद्गुणाः मित्रभावेन निवसन्ति / 'सदाचारश्च परमो धर्मः। आहारनिद्रादयः प्राणिमात्रसाधारणाः भावाः किन्तु सदाचारधर्म एवं विशिनष्टि मानवम् अन्येभ्यः प्राणिभ्यः / यथोक्तम् आहारनिद्राभयमैयुनं च समानमेतत् पशुभिर्नराणाम् / धर्मो हि तेषामधिको विशेषः धर्मेण हीनाः पशुभिः समानाः / / सदाचारिणः समाज देशं विश्वं च समुन्नेतुं पारयन्ति / ते केनापि प्रलोभनेन न्यायात् पयः न विचलन्ति अपितु सर्वदैव सर्वेषां कल्याणं निस्स्वार्थ कर्तुं प्रयनन्से / एतादृशानां महापुरुषाणां समाजे महान् प्रभावो भवति, सर्वत्र सर्वदा प विला समादरः / सदाचारिणः जनानां मूर्धनि तिष्ठन्ति, न कुत्रापि कदापि मा उपहागा. पदानि निन्दाभाजनानि वा भवन्ति / अतएवोक्तम्-शीकां पर भूषणम। ग)