________________ 7 : महाकविः कालिदासः 3: निबन्ध [205 204 ] संस्कृत-प्रवेशिका [7 : महाकविः कालिदासः (7) महाकविः कालिदासः कविकुलगुरुः कालिदासः न केवल भारतस्य अपितु समस्तविश्वस्य महाकविषु मूर्धन्यतया परिगण्यते / संस्कृतसाहित्ये अस्य प्रतिभा सर्वातिशायिनी / पाश्चात्यसमालोचकाः अपि एनं शेक्सपीयरोपमं स्वीकृत्य सम्मानयन्ति / यथा चोक्तम् 'पुरा कवीनां गणना-प्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः / अशापि तत्तुल्यकयेरभावादनामिका सार्थवती बभूव / / कालिदासस्य जन्मस्थानमधिकृत्य त्रीणि मतानि सन्ति-(१) केचिदेनं बङ्गदेशीयं मन्यन्ते यतः अस्य 'कालिदास' इति नामैव अभिव्यनक्ति यदयं 'कालि' समाराधनेन कविप्रतिभा लब्धवान् / बङ्गेषु देवी-काली प्राधान्येन पूज्यते / अद्यापि भाषाडस्य प्रतिपदि कालिदासोत्सवः महतायोजनेन सम्पायते / (2) अपरे तु एनं काश्मीरवासिनं मन्यन्ते / अप कुमारसंभवे हिमालयवर्णनम्, मेघदूते अलकापुर्यादिवर्णनम्, अभिज्ञानशाकुन्तले मागच्याश्रमोपकण्ठे काश्मीरप्रदेशानुहारि उपत्यकावर्णनं चैव प्रमाणम् / (3) अन्ये तु एनं उज्जयिनीनिवासिनं मन्यन्ते / एतन्मतसाधक मेघदूते अवन्तिदेशस्थोज्जयिन्याः, तत्समीपस्थप्रदेशानां (दशार्ण-मन्दसौर-विदिशा भेलसादीनां), क्षिप्रायाः भगवतो महाकालस्य च वर्णनम् / अन्यच्च पण्डितसमाजे एतदपि प्रचलितं यत् कालिदासः स्वजन्मना काश्मीरभुवमलकृत्य प्रौढ़े वयराि उज्जयिनीमागतः।। एवमेव कालिदासस्य समयोऽपि विवादग्रस्तः / अत्रापि चत्वारि मतानि प्राधान्येन प्रचलितानि सन्ति-(१) 'मालविकाग्निमित्र' नाटकस्य अनुरोधेन शुङ्गवंशीयस्य राक्षः अग्निमित्रस्य कालः (ईसापूर्व द्वितीयशताब्द्याम् अर्धशतकम् ) उपरितमा सीमा, तथा समाजः हर्षस्य आश्रितेन बाणेन सबहुमान कालिदासनाम वणितम्, तदनुसारेण सप्तमशताब्दीतः प्राक् षष्ठशताब्दी अधस्तना सीमा पर्यवस्यति / एतदभ्यन्तरे एवं केचन कालिदाससमयं ईसापूर्वद्वितीयशताब्दी मन्यन्ते / (2) अपरे जनश्रुतिमनुसृत्य राश: विक्रमादित्यस्य नवरत्नेषु अन्यत अमिमं विक्रमसंवत्सरारम्भे वर्तमानं कालिदासं प्रथमशताब्द्याम् स्थापयन्ति / (3) अन्ये तु सम्राजः विक्रमादित्यापरनामकस्य द्वितीयचन्द्रगुप्तस्य समकालिकस्य कालिदासस्य समयं चतुर्थशताब्दी स्वीकुर्वन्ति / अत्र युक्तिरियमुपस्थाप्यते यत् कलिदासस्य काव्ये यत् वर्णनमुपलभ्यते तत् प्रायो अस्मिन्नेव राशि संगच्छते / (4) मेक्समूलरप्रभृतिभिः कालिदासस्य कालः षष्ठशताब्दी निर्णीयते / अस्य प्रारम्भिकजीवने एका किंवदन्ती बद्धमला प्रचलति / अयं साधारणब्राह्मणकुलोत्पन्नः अल्पे एव वयसि पितृविहीनः परगृहे पालितोऽभवत् / अशिक्षितः अयमेकदा यस्य वृक्षस्य यस्याः शाखायाः अग्रभागं अधिवः आसीत् तामेव छेत्त प्रारभत / तं तथा दृष्ट्वा 'महामूर्ख' इति च मत्वा शास्त्रार्थे कयाचित् विद्योत्तमया राज कुमार्या तिरस्कृताः विद्वांसः तं तस्याः प्रासादं प्रतीकारभावनया नीतवन्तः / तत्र प्रवृत्ते च शास्त्राचे छलेन पराजितायाः तस्याः तत्प्रतिज्ञानुसारम् एतेन सह परिणयं कारितवन्तः / पश्चात् प्रथमसमागमे एवं उष्ट्रस्थाने 'उ' शब्द प्रयुञ्जानं तं महामूर्ख मत्वा सा तं गृहात निस्सारितवती। एवं स्त्रिया पराभूतः कालिदासः कालान्तरे महाकालीप्रसादेन सिद्धि कविप्रतिभा च लब्ध्वा स्वगृहमागतः। यदा सः पत्नी द्वारकपाटमुद्घाटयितुं सम्बोधितवान् तदा सा अन्त:स्थिता एव प्रत्यषद 'अस्ति कश्चिद् वाग्विशेषः ' ततः सः तद्वाक्यस्य प्रतिपदमधिकृत्य क्रमशः कुमारसंभवम् (अस्त्युत्तरस्यामित्यादि), मेघदत्तम् (कश्चित् कान्ताविरहेत्यादि) रघुवंशम् ( वागर्थाविवेत्यादि) चेति त्रीणि काव्यानि अरचयत् / अन्यान् अपि ग्रन्थान् निर्मितवान् / यथा-अभिज्ञानशाकुन्तलम, विक्रमोर्वशीयम् मालविकाग्निमित्रम् चेति श्रीणि नाटकानि तथा ऋतसंहारनामकमेक मुक्तककाव्यम् च / तत्र काव्येषु रधुवंशमहाकाव्यम्, नाटकेषु अभिज्ञानशाकुन्तलम्, खण्डकाव्येषु ( Lyrics ) मेघदूतं सुविख्यातम् / अस्य रचनासु-(१) ध्वनिप्राधान्यं तत्प्रयुक्त चार्थ गाम्भीर्यम्; (2) अलङ्कारविषयाणां सर्वसाधारणानुभवगोचरता तत्प्रयुक्तमुपमादिवैशिष्टयम्, यथोक्तम्-'अपमा कालिदासस्य (0) प्रसाद-माधुर्यवैशद्यम्; (4) शब्दस्य अर्थानुरूपता; (5) वैदर्भीरीति-रस-विषयानुकलछन्दसा प्रयोग; (6) भावप्रवणता; (7) कला-कौशलम्; (5) प्रकृतिवर्णन-चरित्रचित्रण पुण्यम् ; (9) सहजसौन्दर्य निरूपणम् / (10) भारतीय-संस्कृतिसम्पोषकत्व बाहुल्येन दृश्यते। अन्येऽपि बहवो विशेषाः सन्ति किन्तु निबन्धविस्तरभिया नोल्लिख्यते / किं बहुना, यादृशं चारुत्वं रचना-चमत्कृतिर्वा अस्य प्रन्थेषु उपलभ्यते तत् प्रायो अन्यत्र दुर्लभम् / उदाहरणार्थ त्रीणि पद्यानि प्रस्तुयन्ते-- संचारिणी दीपशिखेव रात्री यं यं व्यतीयाय पतिवरा सा / नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः / / रघुवंशः / / . इदं किल व्याजमनोहरं वपुस्तपःक्षम साधयितुं च इच्छति / ध्रुवं स नीलोत्पलपत्रधारया शमीलता क्षेत्तमृषिर्व्यवस्वति / / शाकुन्तलम् / / मन्दं मन्द नुदति पवनश्चानुकूलो यथा त्वां वामश्चार्य नुवति मधुरं चातकस्ते सगन्धः। खिन्नः खिन्नः शिखरिष पदं न्यस्य गन्तासि यत्र / क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य / / मेघदूतम् / / किं बहुना, कवेरप्रतिम वैदुष्यं विचार्य श्रीकृष्णेन कविना सम्यगेवोक्तम् -- अस्पष्टदोषा नलिनीव हृद्या हारावलीव प्रथिता गुणोथैः / प्रियाशुपालीव विमर्दहया न कालिदासावपरस्य पाणी।