________________ 202] संस्कृत-प्रवेशिका [6 : महात्मागान्धिः स्वरूपेण शासनेन सम्मानितः / तदानी पदमिदं प्रायः आङ्गलदेशवासिनां कृते एव सुरक्षितमासीत्, सदस्यानां कार्य च परामर्शप्रदानमात्रमासीत् / परं तत्पदासीनः मालवीयः शासननीतिसमालोचनमपि यथावसरं निर्भयमकरोत् / 1906 ईसवीया लाहोरकांग्रेससभायाः तथा 1912 ईसवीये दिल्ली-कांग्रेसाधिवेशनस्य च सभापतिपदमभूषयत् / 1916 ईसवीये 'रोलट-एक्ट' इत्यस्य विरोधं गान्धिमहोदयेन सह कृतवान् / देशसेवापरायणः अर्घ द्वि-त्रिवारं कारागारवासमपि असहत / अयं हिन्दूमहासभागोसेवासंघ-सनातनधर्म महासभादिधामिक-सामाजिक संस्थानां संस्थापकः संचालका आसीत् / एवं कालक्रमेण अस्य कीतिः सर्वासु दिक्षु प्रासरत् / ___ अस्य महानुभावस्य नीतिः प्राधान्येन पक्षपातरहिता, देशभक्तिप्रधाना, विदेशवस्तुपरित्यागात्मिका, भारतीयसंस्कृतिसम्पोषिका, स्वतन्त्रताप्रवणा, प्राचीनपरम्परानुसार शिक्षाप्रादानोन्मुखी चासीत् / प्रचलितशिक्षाप्रणाली दास्यमनोवृत्तिवधिनी विचिन्त्य प्राचीन संस्कृतिसंवर्धनाय राष्ट्रियभावनासमुद्बोधनाय च काशी-हिन्दूविश्वविद्यालयं 1916 ईसवीये फरवरीमासस्य चतुर्थतारिकायां शुभभूहर्ते संस्थापितवान् / देशनायकः अयं 1946 ईसवीये नवम्बरमासस्य द्वादशतारिकायां भौतिकं शरीरम् अत्यजत्, न यशःशरीरम् / एवं महामना यावज्जीवनं सततं सामाजिकक्षेत्रे, धार्मिकक्षेत्र, राजनीतिक्षेत्रे शिक्षाक्षेत्रे च चिरस्मरणीयो सेवामकरोत् / काशी-हिन्लू-विश्वविद्यालयः तु अस्य एकः कीर्तिस्तम्भ एव, अन्येऽपि बहवः आसन् किन्तु विस्तरभिया तदुल्लेखः परित्यज्यते / किं बहुना, मालवीयः महान् राजनीतिज्ञः, समाजसेवकः, देशभक्तः, शिक्षाप्रसारकः, आध्यात्मपरायणः निर्भयचासीत् / अस्य कीतिकौमुदी दिग्दिगन्ता व्यापिनी / 6 : महात्मागान्धिः] 3 : निबन्ध [203 लब्हवा च सः स्वदेशं प्रत्यागतः / अत्र आगत्य प्राविवाककार्य (वकालत) प्रारभत सः, किन्तु तद्व्यवसायं छलकपटमयमनुभूय तस्माद् उपारमत / एकदा सः दक्षिण अफ्रीकादेशे गतः / तत्र भारतीयाना कष्टबहुला शोचनीया दशां विलोक्य तेषां समुद्धाराय महद् आन्दोलनं समचालयत् / अयं खलु गान्धिमहोदयस्य राजनीतो प्रवेशस्य प्रथमावसरः / तत्र सफलता प्राप्य सः प्रायः विंशतिवर्षानन्तरं 1914 तमे वर्षे पुनः स्वदेशं प्रत्यागतः / अत्रागत्यैव अयं मोतीहारीमण्डले निवसता नीलव्यवसायिनां गौराङ्गानाम् अत्याचारेभ्यः पीडितो जनता समुद्धा सर्वप्रथममान्दोलनं समचालयत् / ततश्च अमृतसरे 'जलियांवालाबाग' नामकस्थानस्य दारुणनरसंहारघटनातः अतिद्रवितचित्तः सः शासनविरोधे 'असहयोगान्दोलनं' प्रारभत / तदा सः शासनेन सहयोगिभिः सह कारागारवास दण्डितः / 1930 ईसवीये लवणसत्याग्रहे सः पुनः सहयोगिभिः सह कारागारवासं प्रापितः। 1631 ईसवीये सः लण्डने आयोजितायां गोलमेज परिषदि (Second Round Table Conference ) कांग्रेसप्रतिनिधिरूपेण गतः, परन्तु सफलता न अवाप्नोत् / 1937 ईसवीये अस्य प्रेरणया राष्ट्रियमन्त्रिमण्डलः खादीप्रोत्साहनम्, ग्रामसुधारः, मादकद्रव्याणां प्रतिषेधः, भारतीयशिक्षापद्धतेः प्रसारः, हरिजनेभ्यः विविधसुविधाप्रदानम् इत्यादीनि कार्याणि साधितानि / 1942 ईसवीये 'भारतं त्यजत' (Quit India) इति प्रसिद्धं महत्त्वपूर्णच अन्तिमम् आन्दोलनं प्रारब्धम् / पुनरपि सः सहयोगिभिः सह कारागारे निक्षिसः / अन्ततः 1947 तमे वर्षे अगस्तमासस्य पञ्चदयातारिकार्या पूर्णस्वतन्त्रता प्रदाय वैदेशिकघोषणया वैदेशिकशासन समाप्तिमगच्छत् देशश्च स्वतन्त्रोऽभवद / किन्तु तदानीं दुर्भाग्येन देशस्य हिन्दुस्तान-पाकिस्तानरूपेण द्विषा विभाजनं जातम् / दैवदुर्विपाकादेव 1948 तमे वर्षे जनवरीमासस्य त्रिंशत्तारिकायां यवनपक्षपातहष्टेन 'नायुरापगोडसे' नामकेन पूना विद्यलाभवने पञ्चवादनकाले प्रार्थनावसरे सः गुलिकया हतः / एवं भारतभाग्यभानुः अकाले एवं अस्तं गतः / महात्मनो गान्धिनः स्थानस्य पूर्तिरसम्भवैव सर्वथा / (6) महात्मागान्धिः को हि भारतीयो न जानाति महात्मानं गान्धिमहोदयम् / एतेन भारतीयानां स्वतन्त्रतायै समुन्नतये च महान्ति अद्भुतानि च कार्याणि कृतानि / सर्वेष अभूतपूर्वा सफलता च प्राप्ता। अस्य स्मरणं राम कृष्ण-बुद्धादीनामिव क्रियते / गान्धिमहोदयस्य जन्म 1866 ईसवीयस्य अक्टूबरमासस्य द्वितीयतारिकायां गुर्जरप्रदेशे (गुजरातप्रान्ते ) पोरबन्दरनगरे अभवत् / अस्य पितुर्नाम 'श्रीकाबागान्धिः', परममिष्ठायाः मातुश्च 'पुत्तलोबाई' इति / अस्य पिता राजकोटराज्यस्य प्रधानमन्त्री आसीत् / एतेन धार्मिकशिक्षा स्वमातुरेव प्राप्ता / प्राचीनपरम्परानुसारम् अस्य विवाहः बाल्यकाले त्रयोदशवर्षीये वयसि श्रीमत्या कस्तूरबया सह समपद्यत / विवाहानन्तरं सः मैट्रिकुलेशनपरीक्षामुत्तीर्य विधि (Law)-शिक्षाय आङ्गलदेशं - गतः / तत्र चतुर्पु वर्षेषु ता शिक्षा समाप्य तदुपाधि ( Bar-at-Law=L.L.B.) गान्धिमहोदयेन सञ्चालितस्य स्वतन्त्रतासंग्रामस्य सफलतायाः मूलमंत्रः सत्यअहिंसात्मकास्त्र प्रयोग एव / अयं मानवेतिहासे असाधारण सफलः अभूतपूर्वः प्रयोगः आसीत् / यतः दुर्दान्तः प्रबलारिभिः सह अस्त्रविहीन-देशस्य कृते नाग्या गतिरासीत् / अतः एवंविषः सफलः प्रयोगः अस्य देवत्वम् असंशयं प्रकटयति / ततः प्रभूति भारतीयाः परमप्रेम्णा एनं 'बापू', 'राष्ट्रपिता' चेति पदद्वयेन सम्मानयन्ति / अस्तुतः शरीरेण विरहितोऽपि सः अहिंसादिसिद्धान्तः अमरत्वं पाप्तः / तस्य यमगर केवल भारतवर्षे एव अपितु समस्तेऽपि विश्व अभिव्याप्त