SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ २५ C Peter पर्व का एक अध्ययन दत्यैा दशशतान्कुञ्जरान्कवचावृतान् । क्षमावत: कुलीनांश्च द्वारेण प्राविशंस्ततः ॥ २० ॥ एते चान्ये च बहवो गणा दिग्भ्यः समागताः । श्रन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥ २१ ॥ राजा चित्ररथो नाम गन्धर्वो वासवानुगः । शतानि चत्वार्यददद्वयानां वातरंहसाम् ॥ २२ ॥ तु प्रमुदितो गन्धर्वो वाजिनां शतम् । श्राम्रपत्र सवर्णानामददद्धेममालिनाम् || २३ || कृती च राजा कौरव्य शूकराणां विशांपते । अददद् गजरत्नानां शतानि सुबहून्यपि ॥ २४ ॥ पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् | अश्वानां च सहस्रे द्व े राजन्काञ्चनमालिनाम् ॥ २६ ॥ जवसत्त्वोपपन्नानां वयःस्थानां नराधिप । बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥ २७ ॥ यज्ञसेनेन दासीनां सहस्राणि चतुर्दश । 'दासानामयुतं चैव सदाराणां विशांपते ॥ २८ ॥ गजयुक्ता महाराज रथाः षड्विंशतिस्तथा । राज्य' च कृत्स्नं पार्थेभ्यो यज्ञार्थ वै निवेदितम् ॥ २९ ॥ समुद्रसारं वैड्र्य' मुक्ताः शङ्खास्तथैव च । शतशश्च कथांस्तत्र सिंहलाः समुपाहरन् ॥ ३० ॥ संवृता मणिचारैस्तु श्यामास्ताम्रान्तलोचनाः । तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥ ३१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat १९३ www.umaragyanbhandar.com
SR No.035307
Book TitleVikram Pushpanjali
Original Sutra AuthorN/A
AuthorKalidas Mahakavi
PublisherZZZ Unknown
Publication Year1944
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy