________________
८२
रेवती-दान-समालोचना
...कथं निश्चितभित्याह
आगमोद्धारसंस्थायाः, मिलितानां सभासदाम् । परस्परमविशेण, जातोऽयमनिश्चयः ॥ ५४॥ .
आगमोद्धारसंस्थाया इति—श्री अजमेराख्यपत्तने साधुसम्मेलनप्रसङ्ग शास्त्रपर्यालोचनकृते स्थापिता याऽऽगमोद्धारसमितिस्तस्याः सभासदः प्रतिनिधियो गण्युपाध्याययुवाचार्यपूज्यअमोलखऋषिप्रतियः । ये संप्रति जयपुरपत्तने विराजन्ते शास्त्रपर्यालोचनार्थ मिलितानां तेषां परस्परविमर्शण-परस्परं विहितशास्त्रपर्या लोचनेन अयं-प्रकृतनिबन्धगतार्थनिर्णयः कृतः साधित इत्यर्थः ॥ ५४॥ प्रशस्तिः
खनिध्यंकटरावर्षे, माघशुक्लाष्टमीतिथौ । भौमे भारतविख्याते, जयपुराख्यपत्तने ॥ ५५ ॥ पूज्यगुलाबचन्द्रा यम्बुजपरागसेविना । ..
रत्नेन्दुना निबन्धोऽयं, निर्मितो मुक्तयेऽस्तु नः॥ ५६ ॥ . खनिध्यंकघरावर्षे इति-खं शून्यं निधिर्नव अङ्को नव धरा चैका। अङ्कानां वामतो गतिरिति १९९० मिते वर्षे-विक्रमाब्दे मावमासशुक्लपक्षस्याष्टमीतिथौ भौमे मंगलवासरे भारतवर्षप्रसिद्ध जयपुराख्ये पत्तने लिम्बडीसम्प्रदायस्याचार्यवरस्य पूज्यश्रीगुलाबचन्द्रजित्स्वामिनश्चरणकमलरजःसेवकेन रलचन्द्रमुनिना विरचितोऽयं निबन्धो नोऽस्माकं सर्वेषां च मुक्तये कल्याणायास्तु भवत्विति लेखकभावना ।। ५५-५६ ॥
नभोऽङ्कनिधिभूवर्षे, माघकृष्णदलेशनौ ।
पञ्चम्य मृजुटीकेयं, स्वोपज्ञं पूर्णतां गता ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com