________________
५०
रेवती-दान-समालोचना
एतेषां शब्दानां तत्तद्वनस्पतिवाचकत्वं वैद्यकपुस्तके सुश्रुतादौ वैद्यककोषे च प्रसिद्धमस्ति । तथा जैनसूत्रेऽपि कचित्तथास्ति । ततः पर्वपक्षिणं प्रति स्वशास्त्रस्य प्रज्ञापनादेः परशास्त्रस्य सुश्रुतादेश्व प्रमाणानि प्रमितिजनकवाक्यान्युद्धत्य प्रदर्श्यन्त इत्यर्थः ॥३४॥ प्रथमं कपोतशब्दार्थो निरूप्यतेपारावतः कपोतश्चामरे पर्यायतः स्थितौ । पारावतस्तरुः सिद्धः, कपोतोऽपि तथा भवेत् ॥३॥
पारावत इति:-'दुवे कवोयसरीरा' इति प्रथमवाक्ये 'कवोय' (प्राकृते )-कपोत ( संस्कृते ) शब्दः प्रयुक्तः । कपोतश्च पारावतशब्दस्य पर्यायतयामरकोषे द्वितीयकाण्डे निगदितः । तथाहि "पारावतः कलरवः कपोतोऽथ शशादनः ।" (पकि० १०१६) पर्यायत्वाद्योऽर्थः पारावतशब्दस्य स एवार्थः कपोतशब्दस्याऽपि भवितुमर्हति । अथ पारावतशब्दस्य तु पक्षिवाचकत्वं प्रसिद्धमिति चेद् वृक्षवाचकत्वस्यापि प्रसिद्धत्वात् । तथा हि सुश्रुतसंहितायां ३३८ पृष्ठे-फलवृक्षप्रकरणे-"पारावतं समधुरं रुच्यमत्यग्निवातनुत्" पारावतवृक्षस्य सुश्रुतेऽनेकस्थलेषुलेखात्तस्य वृक्षत्वं सिद्धमेव । तत एव कपोतस्यापि पारावतपर्यायत्वाद् वृक्षत्वं सिद्धमिति ॥३५॥ कपोतशब्दस्य द्वितीयार्थः
शब्दसिन्धौ कपोतेन, पारीशोऽभिहितस्तरुः । पारीशेन पुनस्तत्र, प्लततो निरूपितः ॥ ३६ ॥
शब्दसिन्धौ-वैद्यकशब्दसिन्ध्वाख्यकोषे १९३ पृष्ठेकपोतेनShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com