________________
४६
रेवती - दान- समालोचना
1
श्रुतः । न पर्यालोचनपूर्वकमवधारित इति तात्पर्य प्रकृतवाक्यस्यास्तीति पूर्वपक्षे वृत्तिकारस्य न सम्यगादरः प्रतीयते । किं च कः श्रूयमाणोऽर्थ इत्यपि स्पष्टं नोक्तम् । अथ द्वितीयपक्षस्तु विस्तरेण स्पष्टमुक्तः स चोत्तरपक्षरूपेणोपन्यस्तः । तत्र पूर्वपक्षस्य खण्डनसवेनोतरपक्षलक्षणविशिष्टत्वम् ॥ ३१ ॥
उभयपक्षये, द्वितीयस्य प्राधान्य दर्शयति
शैल्यैतया द्वितीयस्य प्राधान्यं स्वीकृतं स्वयम् । प्रथमस्य च गौणत्वं, स्थापितं व्यंग्यहेतुतः || ३२॥
शैल्येति — एतयोपरिदर्शितया शैल्या पूर्वपक्षत्वात्तरपक्षत्वसंक्षिप्तत्व विस्तृतत्वनिरादरत्व सादरत्व निर्हेतुकत्व सहेतुकत्वप्रतिपादनगर्भितरच नात्मकया रीत्या । द्वितीयस्य वनस्पत्यर्थ स्वीकुर्वतो द्वितीयपक्षस्य वृत्तिकारेण स्वयं प्राधान्यं स्वीकृतम् । मांसार्थे तात्पर्यग्राहकम्य प्रथमपक्षस्य च गौणत्वं स्थापितम् । कुत इत्याह व्यंग्यहेतुतः पञ्चम्यन्तशब्दात्मक हेत्वदर्शनेऽपि स्वमनोभावगतहेतोरित्यर्थः । यदि वृत्तिकारस्याशयः प्रथमपक्षस्वीकारे स्यात्तदा स द्वितीयपक्षवत्प्रथम पक्षमपि विस्तरेण हेतुपूर्वकं स्पष्टं स्थापयेत् । तथा नोपदर्शितम् । तेन च तस्याशयः स्पष्टं ज्ञातुं शक्यते धीमद्भिरित्यलं विस्तरेण ||३२|
वृत्तिकारस्य स्पष्टाशयः -
किश्च स्थानाङ्गटीकायामनेनैव निजाशयः ।
फलार्थे दर्शितः स्पष्ट नात्रातः पुनरोरितः ॥३३॥
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat