SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ रेवती-दान-समालोचना भग० १५; १, पृ. ६८७ समणस्स णं भगवतो महावीरस्स तित्थंसि णवहिं जीवहिं तित्थगरणामगोत्ते कम्मे णिज्वतिते सेणिएणं, सुपासेणं, उदाइणा, पोहिलेणं अणगारेणं, दठाउणा, संखेणं, सयणेणं, सुलसाए, रेवतीए । स्था० ९, सूत्र ६९१, पृ० ४५५ । रेवत्या दत्तं यदि प्राणिमांसं स्यात्तदोक्तपाठौ न संगच्छेयाताम् । मांसस्याशुद्धद्रव्यत्वेन दुष्टत्वस्य सपद्येव निदर्शनात् । किञ्च तीर्थङ्करनामदेवायुष्यबंधोऽपि न संभवेत् । मांसाहारस्य नरकायुष्यहेतुत्वेन स्थानाङ्गादौ प्रतिपादितत्वात् । तथा च कपोतादिशब्दानां प्राणिमांसार्थपरत्वे स्वोकृते द्रव्यशुद्धिस्तीर्थङ्करनामकमदेवायुष्यबंधश्चेत्येतन्न संगच्छेत ॥ २१ ॥ मांसार्थ 'कडए' शब्दस्यानन्दयापत्तिः स्यादित्याहकडए इति शब्दस्य, मांसे नान्वययोग्यता। न हि निष्पाद्यते मांस, मार्जारेण कथंचन ॥२२॥ छिन्नं वा भक्षितं तस्य, लक्ष्यार्थः क्रियते तदा । वाक्यार्थासंगतिः स्पष्टा, दातुं योग्यं न तद्भवेत् ॥२३॥ कडए इति–'मजारकडए कुक्कुडमंसए' इति वाक्ये मार्जारेण कृतमिति तृतीयातत्पुरुषे कृते कृतभित्यस्य निष्पादितमित्यर्थे मार्जारनिष्पादितमित्यर्थः स्यात् । स च न संभवति । न हि शस्त्रादिना मार्जारः कुक्कुटमांसं निष्पादयितुं शक्नोति । तत्सकाशे शस्त्रादीनामभावात् । दंतदंष्ट्रादिकमेव शस्त्रं तेन च कुक्कुट छिनत्ति भक्षयति वा मार्जार इत्युच्यते तदा महदसामञ्जShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy