SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ क्रमैरवपतन्-अधस्तादवतरन् व्यतिव्रजंश्च गच्छंश्च तिर्यग् असङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन 'जेणेव'त्ति नन्दीश्वरो द्वीपः यस्मिन् प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे द्वीपे दक्षिणपूर्वः-आग्नेयकोणवर्ती रतिकरनामा पर्वतस्तरिमन्नुपागच्छति, उपागत्य च तां दिव्यां देवद्धि यावद् दिव्यं देवानुभावं शनैः २ प्रतिसंहरन् २ एतदेव पर्यायेण व्याचष्टे-प्रतिसङ्क्षिपन् २ यस्मिन् प्रदेशे जम्बूद्वीपो नाम द्वीपः तत्र च जम्बूद्वीपे यस्मिन् प्रदेशे भारतवर्ष तस्मिश्च भारतवर्षे यस्मिन् प्रदेशे आमलकल्पा नगरी तस्याश्चामलकल्पाया नगर्या बहिर्यस्मिन् प्रदेशे आम्रशालवनं चैत्यं तस्मिश्च चैत्ये यस्मिन् प्रदेशे श्रमणो भगवान महावीरः तेणेवेति तत्रोपागच्छति, सर्वत्र तृतीया सप्तम्यर्थे द्रष्टव्या प्राकृतत्वात् । उपागत्य च श्रमणं भगवन्तं महावीरं तेन-प्रागुक्तस्वरूपेण दिव्येन यानविमानेन सह त्रिकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च श्रमणस्य भगवतो महावीरस्यापेक्षया य उत्तरपूर्वी दिग्भागस्तमपक्रामति-गच्छति अपक्रम्य च तद् दिव्यं यानविमानमीषद् एतदेव प्रकटयति-चतुरङ्गुलं, चतुर्भिरङ्गलैरित्यर्थः असम्प्राप्तं सत् धरणीतले स्थापयति स्थापयित्वा चतसृभिरग्रमहिषीभिः सपरिवाराभिः द्वाभ्यामनीकाभ्यां तद्यथा-गन्धर्वानीकेन नाटयानीकेन च साध सम्परिवृतस्तस्माद् दिव्यात् यानविमानात् पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवतरतिः चत्वारि सामानिकदेवसहस्राण्युत्तरेण, शेषा दक्षिणेन । 'तए णमि' त्यादि, 'वंदामि नमसामि जाव पज्जुवा. सामी'त्यत्र यावच्छब्दकरणात् 'सकारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि' इति परिग्रहः, ततः 'सूरियाभाइ' इत्यादि, सूरियाभात् आदिः-मुख्यः पर्युपासकतया यस्य सः सूर्याभादिः श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy