________________
प्रलम्बते इति प्रलम्बि तेन-प्रलम्बमानेन कोरण्टमाल्यदाम्नाकोरण्टपुष्पमालयोपशोभितं प्रलम्बकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं दीप्त्या शोभया वर्तुलतया चन्द्रमण्डलाकारं समुत्सृतं सम्यगूर्वीकृतं विमलमातपत्रं तथा प्रवरं सिंहासनं मणिरत्नैः भक्त्या-विच्छित्त्या चित्रं यत् तन्मणिरत्नभक्तिचित्रं, सह पादपीठं यस्य तत्सपादपीठं, तथा 'सपाउयाजोगसमाजुत्त' मिति, पादुकायोगः-पादुकाद्वितयं तस्य समायोजनं समायुक्तं सह पादुकायोगसमायुक्तं यस्य तत्तथा 'बहुकिङ्करामरपरिग्गहियमिति बहुभिः किङ्करैः-किङ्करकल्पैरमरैः परिगृहीतं 'पुरतो' यथानुपूा सम्प्रस्थितं । तदनन्तरं 'वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपइट्टिए'त्ति, वज्रमयो-वज्ररत्नमयः तथा वृत्तं-वर्तुलं लटं-मनोज्ञं संस्थितं-संस्थानमाकारो यस्य स वृत्त. लष्टसंस्थितः तथा सुश्लिष्टः-सुश्लेषापन्नावयवो मसृण इत्यर्थः परिघृष्ट इव परिघृष्टः खरशाणया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यकूपतिततया वक्रः तत एतेषां पदानां पदद्वयंमीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः-अतिशायी, तथा अनेकानि-अनेकसङ्ख्याकानि वराणि-प्रधानानि पञ्चवर्णानि कुडभीसहस्राणि उत्सृतानि यत्र सोऽनेकवरपञ्चवर्णकुडभी. सहस्रोत्सृतः, क्तान्तस्य परनिपातो सुखादिदर्शनात्, वातोदूतविजयवैजयन्तीपताकाच्छत्रातिछत्रकलितः, तुङ्गः-अत्युच्चो योजनसहस्त्रप्रमाणोच्छ्रयत्वात्, तथा गगनतलम्-अम्बरतलम. नुलिखत् शिखरम्-अग्रभागो यस्य स तथा योजनसहस्रमुत्सृतः अत एव 'महइमहालए' इति, अतिशयेन महान् महेन्द्रध्वजः 'पुरतो' यथानुपूर्व्या संप्रस्थितः । तदनन्तरं 'सुरूवनेवत्थपरिकच्छिया' इति, सुरूपं नेपथ्यं परिकक्षितं-परिगृहीतं यैस्ते तथा, तथा सुष्टु-अतिशयेन सजाः-परिपूर्णाः स्वसामग्रीसमाShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com