________________
प्रविशति, प्रविशन् पूर्वेण 'त्रिसोपानप्रतिरूपकेण' प्रतिविशिष्टरूपेण त्रिसोपानेन तद् यानविमानं 'दुरुहइत्ति आगेहति, आरुह्य च 'जेणेवे ति यस्मिन्नेव देशे तस्य मणिपीठिकायाः उपरि सिंहासनं तत्रोपागच्छति, उपागत्य च सिंहासनवरगतः सन् पूर्वाभिमुखः 'सन्निषण्णः' सम्यक्-सकलसेवकजनचमत्कारकारिण्या उपवेशनस्थित्योपविष्टः। 'तए णमि'त्यादि, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि तद् दिव्यं यानविमानमनुप्रदक्षिणीकुर्वन्ति, उत्तरेण त्रिसोपानप्रतिरूपकेणारोहन्ति, 'पुव्वणत्थेहि' इत्यादि, अत्र सप्तम्यर्थे तृतीया, पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अवशेषाः-अभ्यः न्तरपर्षदादयो देवा देव्यश्च दक्षिणेन त्रिसोपानप्रतिरूपकेणारोहन्ति, आरुह्य च स्वेषु भद्रासनेषु निषीदन्ति । 'तए णमि' त्यादि, ततस्तस्य सूर्याभस्य देवस्य तद् दिव्यं यानविमानमारूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूर्व्या-वक्ष्यमाणपाठक्रमेणेत्यर्थः, सम्प्रस्थितानि, तद्यथा-'सोस्थियसिरिवच्छे'त्यादि, पूर्व स्वस्तिकः तदनन्तरं श्रीवत्सस्तदनन्तरं पूर्णकलशभृङ्गारदि. व्यातपत्रपताकाः सचामराः कथम्भूताः ? इत्याह-'दर्शनरतिका' दर्शने-अवलोकने रतिर्यासुतादर्शनरतिकाः, इह दर्शनरतिकमपि किश्चिदालोकदर्शनीयं न भवत्यमङ्गलत्वात् यथा गर्भवती युवतिः, अत आह-आलोके बहिः प्रस्थानसमयभाविनि दर्शनीया-द्रष्टुं योग्या मङ्गलत्वात् । अन्ये त्वाहुः-आलोके दर्शनीया न पुनरत्युचा आलोकदर्शनीया,तथा वातोद्भूता विजयसूचिका वैजयन्तीति विजयवैजयन्ती च उत्सृता-ऊर्वीकृता गगनतलम् अम्बरतलमनुलिखन्ती अभिलङ्घयन्ती 'पुरतो' यथानुपूर्ध्या सम्प्रस्थिता । 'तयणंतरं च णमित्यादि, तदन्तरं 'वेरुलियभिसंतविमलदंड मिति 'वैडूर्यो' वैडूर्यरत्नमयो भिसंतो-दीप्यमानो विमलो निर्मलो दण्डो यस्य तत्तथा 'पलंबकोरंटमल्लदामोवसोहिय'मिति, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com