SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ शिल्पोपाध्यायेन रचितो दृढो-बलवान् परिघः-अर्गला इन्द्र. कीलश्व-सम्पाटितकपाटद्वयाधारभूतः प्रवेशमध्यभागो यस्यां सा तथा, 'विवणिवणिच्छित्तसिप्पिआइण्णनिव्वुयसुहा' विपणीनां-वणिकपथानां हट्टमार्गाणां वणिजां च क्षेत्रं-स्थानं सा विपणिवणिक्षेत्र तथा शिल्पिभिः कुम्भकारादिभिनिर्वतैःसुखिभिः शुभैः-स्वस्वकर्मकुशलैराकीर्णा, प्राकृतत्वाञ्च सूत्रे अन्यथा पदोपन्यासः, ततः पूर्वपदेन कर्मधारयः, 'सिंघाडगतियच उक्कचञ्चरपणियापणविविहवसुपरिमंडिया' शृङ्गाटकत्रिकचतुष्कचत्वरैः पणितानि-क्रयाणकानि तत्प्रधानेषु आपणेषु यानि विविधानि वसूनि-द्रव्याणि तैश्च परिमण्डिता, शृङ्गाटकं -त्रिकोणं स्थान, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्कंरथ्याचतुष्कमीलनात्मकं, चत्वरं-बहुरथ्यापातस्थानं, 'सुरम्मा' सुरम्या-- अतिरम्या, 'नरवइपविइन्नमहिवइपहा' नरपतिना-राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गों यस्यां सा तथा, 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइण्णजाणजोगा' अनेकैर्वरतुरगाणां मत्त. कुञ्जराणां रथानां च पहकरैः-सङ्घातैः तथा शिबिकाभिः स्यन्दमानीभिर्यानयुग्यैश्चाकीर्णा-व्याप्ता या सा तथा, आकी. र्णशब्दस्य मध्यनिपातः प्राकृतत्वात् , तत्र शिबिकाः-कृटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणा जम्पानविशेषा यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येव, 'विमउलनवनलिणसोभियजला' विमुकुलैः-विकसितैनत्रैर्नलिनैः -कमलैः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवणपंतिमहिया उत्ताणयनयणपिच्छणिजा' इति सुगम 'पासाइया' इत्यादि प्रासादेषु भवा प्रासादीया, प्रासादबहुला इत्यर्थः, अत एव दर्शनीया द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात्, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy