________________
तथा अभि द्रष्टन प्रति प्रत्येकमभिमुखमतीव चेतोहारित्वात् रूपम्-आकारो यस्याः सा अभिरूपा. एतदेव व्याचष्टे-प्रतिरूपा, प्रतिविशिष्टम्-असाधारणम् रूपम्-आकारो यस्याः सा प्रतिरूपा ॥१॥ " तोसे ण" मित्यादि, तस्यां णमिति पूर्ववत् आमलकल्पायां नगर्या बहिः उत्तरपौरस्त्ये-उत्तरपूर्वारूपे ईशा. णकोणे इत्यर्थः, दिगभागे 'अम्बसालवणे' इति आनेः शालैश्वातिप्रचुरतयोपलक्षितं यद्वनं तदाम्रशालवनं तद्योगाच्चैत्यमपि आम्रशालवनं, चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच इह संज्ञाशब्दत्वात् देवताप्रतिबिम्बे प्रसिद्धं, ततः स्तदाश्रयभूतं यद्देवताया गृहं तदप्युपचारात् चैत्यं, तचेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामहतामायतनं, 'होत्था' त्ति अभवत्, तच्च किंविशिष्टमित्याह-चिरातीते पुराणे यावच्छद्धकरणात् 'सहिए कित्तिए नाए सच्छत्ते सज्झए' इत्या. द्यौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । एवंरूपं च चैत्यवर्णकमुक्त्वा वनखण्डवक्तव्यता वक्तव्या, सा चैवं-' से गं अंबसालवणे चेइए एगेणं महया वणसंडेणं सवओ समंता संपरिक्खित्ते, से णं वणसंडे किण्हाभासे इत्यादि यावत्पा. साइए दरिसणिजे अभिरूवे पडिरूवे' तत्र प्रसादीयं-कृष्णावभासत्वादिना गुणेन मनःप्रसादहेतुत्वाद्दर्शनीयं चक्षुरानन्द हेतुत्वात्, अभिरूपप्रतिरूपशब्दार्थः प्राग्वत् , तत उक्तं-'जाव पडिरूवे ॥२॥ ___ असोयवरपायवपुढविसिलावट्टयवत्तव्यया ओववाइयगमेणं नेया । ( सू० ३)
अशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिकग्रन्थानुसारेण ज्ञेया, सा चैवं-' तस्स णं वणसंडस्स बहुमज्झदेसभाए इत्थ णं महं एगे असोगवरपायवे पन्नत्ते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com